________________
| कुमारस्य मदनमन्जूषां दत्त्वा सकलसामग्री पाणिग्रहणस्य सज्जीकृता, तद्भवनं पूरितं, सकललोके मिलिते सति महामहेन राज्ञा | पाणिग्रहणं कारितं, दत्तानि विविधमणिकनकरत्नभूषणानि गजवाहावासादयः, तत्रस्थितो प्रियाययुक्तो रतिप्रीतिभ्यामिव मदनः कुमारराजस्तत्र सर्वत्र विख्यातः, तत्रैव चैत्यपूजाप्रभावनादिभिः सकलं ऋद्धिविस्तारं सफल यति, अथागते मधुमासे अष्टाहिकामहस्सु विधिपूर्वकं सिद्धचक्रपूजा निम्मिता, अथान्यदा तज्जिनालयप्रेक्षामण्डपे स्थितो राजादिपरिकरैः परिवृतः कुमारो यावज्जिनमहि मानुभावं विस्तारयति तावच्छुल्काध्यक्षेण विज्ञप्तं-देव ! सार्थवणिजा त्वदाज्ञाभङ्गपूर्वकं शुल्कं भग्नं, स मया बद्धोऽस्ति, तस्य किं शासनं प्रदीयते?, तन्निशम्य राजा पाह-आज्ञाभङ्गकारिणां प्राणा हरणीया इति राजनीतिः, तदा कुमारो वक्ति-देव! नैतद्वचो युक्तं, जिनगृहे सावधवजनं विधेयं, यदुक्तं-"जिणगिहए सावजं, वयणं जो भणइ तस्स गुरु दोसो। आसायणाइदोसा परत्थ पीडा परा हुँति ॥ १॥" तदुक्तिप्रबुद्धेन राज्ञा तस्य बन्धनानि निराकृत्य यावत्पार्थे आनाययितः तावत्कुमारेणोपलक्षितो धवलो ऽयमिति, कुमारश्चिन्तयति चित्ते-कथमीहग्जातं ?, अथवा लोभवशात् किं किं न भवति ?, यतः-" अर्थातुराणां न सुहुन्न बन्धुः, कामातुराणां न भयं न लज्जा। चिन्तातुराणां न सुखं न निद्रा, क्षुधातुराणां न वपुर्न तेजः ॥१॥" ततः कुमारेण तं जनककल्पं निवेद्य राजबन्धनान्मोचितः स्वस्थाने विसर्जितः, अथ कियदिनानन्तरं धवलेन कुमारो विज्ञप्तः-दे परोपकृतिकृतिन् ! यथाऽस्माकमत्र कुशलं कृतं तथा त्वरितं स्वदेशे प्रस्थापय, तच्छ्रुत्वा कुमारो नरनाथमापृच्छ्य निजदेशगमनार्थं कथमपि विसृज्यमानो गौरवं निर्माय सुतादि सर्व समर्प्य कुमारं प्रवहणे प्रस्थाप्य नरेन्द्रः पश्चादलितः, कुमारोऽपि स्वकीयं सारं सबहुमानं | धवलं च स्वप्रवहणे निवेशयति, शेषपोतेषु शेषजनान्, अथ प्रस्थानमङ्गलहुन्दुभयो ध्वनिताश्चलन्ति पोता जलधौ नभसि विमा-1
Jain Educa
t ional
For Private Personal use only
INI
N
ainelibrary.org