________________
नृत्येषु नोत्पद्यते । अथ श्रीपालेन वेगेनारिदमनमाकार्य प्रदत्ता सुरसुन्दरी पुनर्विवाहोत्सवः कारितः, अरिदमनोऽपि सम्यक्त्ववान् श्रीपालप्रसादात् राज्यऋद्धिसुखभाक् इहपरभवेऽपि सुखी जातः, येऽपि कुष्ठिनो मदनावचनतो नीरोगा जातास्तेऽपि समागत्य श्रीपालं प्रणमन्ति, राज्ञाऽपि ते सर्वे कृतप्रसादाराजन्याः कृताः, मतिसागरमन्त्री अपि समागतः पिहितसक्रियः कृतज्ञत्वेन सन्मानितश्च बहुमानदानेन स्थापितोऽमात्यपदे, श्वशुरशालकमातुलप्रमुखा नृपतयस्तद्भटाश्च सर्वेऽपि बहुमान प्रापिताः भक्तिसंयुता भालमिलितकरकमलास्सदाकालं श्रीपालं सेवन्ते, अर्थकदा मतिसागरेण विज्ञप्तो नरपाल:-देव! बाल्ये बालबुद्धिना येन पितुः पट्टे संस्थापितो भवान् उत्थापितः स शत्रुरेव ज्ञेयः स्वकीयोऽपि, तस्य शिक्षा दातव्या, सत्यपि सामर्थे पैतृकं राज्यं सपत्नहस्तगतं यत्नतो न गृह्णाति तस्य बर्क शरद्घनगार्जितवत् वाङ्मात्रसारं न पारमार्थिक, "किं तेन जातु जातेन, मातुर्योवनवैरिणा?। यो न जातः पितुः साम्ये, चाधिक्ये सदृशो गुणैः॥१॥ राज्यं राज्याधिकारं वा, प्राप्य येन कृतौ नहि । उपकारापकारी च, मित्रामित्रेषु तद्वथा ॥२॥ यथाऽऽ. लेख्यगताः सिंहा, मृगेन्द्रत्वं हि विभ्रति । अवीर्यास्तद्वदीशा हि, शमिनो दुष्टशत्रुषु ॥३॥" तस्मात् पुरन्दरबलस्पर्दिसकलर्दि| प्रापणे किं फलं यदि निजं राज्यं न वशीकृतं, ममापि सुखं तदैव भविष्यतीति मन्त्रिगदितं निशम्य प्राह राजा-सत्यं प्रोक्तं अहमपि तदेव जाने, तत्र सामदानभेददण्डाख्याश्चत्वार उपायाः सन्ति, शत्रुनिग्रहो यदि साम्ना जायते तदा दण्डो नारभ्यते, शर्करयापि पित्तोपशमो भवतीति विचार्य, "स्वामिभक्तो मनःपूतो, समयज्ञो जनप्रियः। सत्यभाषी हितो देशे, दूतो मुक्तो रिघुपति"॥१॥ | चतुर्मुखनामा प्राप्तश्चम्पायामजितसेनसभाया, प्रोक्तवानेवं-भो राजन् ! पूर्व भ्रातृनन्दनः श्रीपालो भूपपदे स्थापितोऽपि त्वया भूभारोद्वहनाऽसमर्थ तं विज्ञाय दूरीकृतः, स्वस्कन्धे चारोपितो भूभारः, अथागतः परनीति सकलकला शिक्षयित्वा कलाकुशलोऽनल्पवकोऽनेक.
JainEducatiointed
For Private Personal Use Only