________________
असमतमतमतमोभरहरणिकपईव तुज्झ नमो ॥ ३ ॥ सिरिमरुदेवासामिणीउयरदरीवसियकेसरिकिसोर !। घोरव्वयदंडखंडियपचंडमोहस्स तुज्झ नमो ॥ ४ ॥ ईक्खागवंसभूसण, गयदूसण दुरियमयगलमयंद । चंदसमवयण विहसियनीलुप्पलनयण तुज्झ नमो ॥ ५॥ कल्लाणकारणुत्तम, तत्तकणयकलससरिससंठाण । कंठठियकालकुंतल, नीलुप्पलकलिय तुज्झ नमो॥६॥ आईसर जोईसर, लयगयमणलक्खलक्खियसरूव । भवकूबपडियजंतुत्तारण जिणनाह तुज्झ नमो ॥ ७॥ सिरिसिद्धसेलमंडण, दुहखंडण खयररायनयपाय । सयलमहसिद्धिदायग, जिणनायग होउ तुज्झ नमो ॥ ८ ॥ तुज्झ नमो तुज्झ नमो तुझ नमो देव चेव | तुज्झ नमो। पणय सुररयणसेहरमइरंजियपाय तुज्झ नमो ॥९॥ इति स्तवनं ॥ इति कुमारविहितसंस्तवं शृण्वन् सुतासहितो भूयोऽप्यानन्दपुलकितललिततनुः सिक्त इवामृतरसेनाभिषिक्त इवामन्दानन्दक्षीरनीरनिधिधाराप्रवाहेण सम्पृक्त इव स्वर्णसिद्धिपुरुषेण लिप्त इव मलयजरसेन दीप्त इव राजतेजसा जातः, कुमारोऽपि जिनचरणसरोजे स्वशीर्ष निवेश्य प्रणामं विधाय बहिर्मण्डपे करवन्दनेन नरनाथं प्रणमति, नृनाथोऽपि तमभिनन्य भणति-भो महाभाग ! यथा त्वया भवनमुद्घाटितं तथा स्वचरितमपि प्रकटय इत्युक्ते कुमारेणाभाणि-भो भूमिपाल ! उत्तमाः स्वनामापि नो वदन्ति, किं पुनः स्वचरितं ?, इति तद्वचनं श्रुत्वा राजा यावता चिन्तयति तावता चारणमुनिस्तत्र चैत्यपाधै समागतः, अथ सर्वे देवान वन्दित्वा मुनिवंदनार्थ गताः, उपविष्टाः, तत्र च चारणश्रमणो धर्म कथयामास-इह खलु आर्यमण्डलोपलब्धजन्मानोऽपि स्वभावत एव मदमोहमदिरामत्ताः मनाक् प्राप्तशिवपथानुकूलवैराग्या अपि पाणिनःप्रायो दूरमुत्सारितप्रचुरतरमोहतिमिरपसरावेशं धर्मोपदेशमन्तरा न सम्यग्दर्शनादिपरिपूर्णमोक्षमार्गावतारसारा भवितुमहन्ति, कथञ्चित्तत्रावतीर्णा अपि अनादिकालविलग्नमीनवासनासंतानविषमवेगावेशेन विक्षोभ्यमाणमनसो न स्थैर्यमव
10
Jain Educo
lemational
For Private & Personel Use Only
W
ww.jainelibrary.org