SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ज्ञानवि० श्रीपाल कृतम् चरित्रम्. ॥१५॥ पुण्यमिवोद्घटितं, तत्रान्तर्गत्वा वस्त्रालङ्कारममृणधुमृणादिकृतपूजमम्लानकुसुमदामसनाथं कृतदुष्कृतोन्माथं श्रीकृषभनाथं वन्दित्वाऽतुलफल ग्रहणाय फलोपढौकनं कुरुते, अत्रान्तरे राजापि सुतायुतः समेतः अद्भुतकुच्चरित्रं पवित्रं कुमारं निभृतं प्रेक्षते, कुमारोऽपि हर्षप्रकर्षापकर्षितप्रमादपटलो भालतलन्यस्तकरकमला पञ्चाङ्गप्रणामस्पृष्टभूमण्डलः श्रीऋषभजिनं स्तौति | काव्यैरेवं-" इष्टानिष्टवियोगयोगहरणी कल्याणनिष्पादिनी, चिन्ताशोककुयोगरोगशमिनी मूर्तिजनानन्दिनी । नित्यं | मानववाञ्छितार्थकरणान्मन्दारसंवादिनी, कल्याणं विदधातु सुन्दरतरं सत्यं वचो वादिनी ॥ १ ॥ चित्रं चेतसि वर्चतेऽद्भुतमिदं व्यापल्लताहारिणी, मूर्ति स्फूर्तिमतीमतीव विमलां नित्यं मनोहारिणीम् । विख्यातां स्नपयन्त एव | मनुजाः शुद्धोदकेन स्वयं, संख्यातीततमोमलापनयतो नैर्मल्यमाविभ्रति ॥ २॥ धन्या दृष्टिरियं यया विमलया दृष्टो भवान् प्रत्यहं, धन्यासौ रसना यया स्तुतिपथं नीतो जगद्वत्सलः । धन्यं कर्णयुगं वचोऽमृतरसं पीतं मुदा येन ते, धन्यं हृत् सततं च येन विशदस्त्वन्नाममन्त्रो धृतः॥३॥ किं पीयूषमयी कृपारसमयी कर्पूरपारीमयी, किं वाऽऽनन्दमयी महोदयमयी सयानलीलामयी। तत्त्वज्ञानमयी सुदर्शनमयी निस्तन्द्रचन्द्रप्रभासारस्फारमयी पुनातु सततं मूर्तिस्त्वदीयात्मनाम् ॥४॥ लोकालोकविभासनैकतरणिप्रायास्त्वदीयाः शुभा, वाचो वाक्यवतामशेषविमलज्ञानं सदा तन्वते । संसाराम्बुधिमध्यमज्जदसुभद्वन्दस्य याः साम्प्रतं, पोतायन्त इव प्रहृष्टमनसस्त्वद्ध्यानमासेदुषः ॥ ५॥ इत्यादि स्तोतुं प्रचक्रपे, श्रीसिद्धचक्रमाहात्म्यचरित्रेऽप्युक्तम्-"सिरिसिद्धचक्कनवपयमहल्लपढमिल्लपयमयजिणंद । असुरिंदसुरिंदच्चियपयपंकय नाह तुज्ज नमो ॥ १ ॥ सिरिरिसहेसरसामिय कामियफलदाणकप्पतरुकाप । कंदप्पदप्पगंजण, भवभंजण देव तुज्झ नमो ॥२॥ सिरिनामिनामकुलगरकुलकमलुल्लासपरमहंससम ! ॥१५॥ in Educatan Interna For Private & Personel Use Only www.jainelibrary.org
SR No.600131
Book TitleShripal Charitram Sanskrit Kavyam
Original Sutra AuthorN/A
AuthorGyanvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1921
Total Pages96
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy