________________
लगाण, हुं चक्केसरिदेवि । मासब्भन्तर तसु नरहिं, आवीसुं निश्चई लेव ॥१॥ न कोऽपि दोषो नृपतेः कुमार्याः, यदागमेनोद्घटते कपाटम् । पतिः कुमार्याः स मिलिष्यतीह, मासेन सम्भाष्य तिरोदधे सा ॥ १ ॥ इति श्रुत्वा निश्चयार्थ प्रमुदितः पौरलोकः, वादितानि तूर्याणि, राजापि ततः समुत्थाय निजगेहं प्राप्तः, निजवेश्मस्थजिनबिम्बानि पूजयित्वा पारणा | विहिता, सा वार्ता सर्वत्र विस्तृता, तेन सर्वेऽपि आगच्छन्ति सप्रमोदा जिनगृहद्वारे, अनुद्घाटिते सविषादा द्यूतकारा इव पश्चाद्रजन्ति, | एवं च तद् द्वारं न केनाप्युद्घाटितं तस्य चैत्यगृहस्य, किञ्चिदूनो मासो जातः, एतदाश्चर्य त्वया पृष्टं कथितं च, भोः पुरुषोत्तम ! यदि त्वं समायासि तत्र ध्रुवमुद्घटिष्यति, चक्रेश्वरीवागपि मिलिता, इति श्रुत्वा त्वरितं तुरगारूढः कुमारः श्रेष्ठिनं ब्रूते-तात ! भवद्भिरपि आगन्तव्यं येन ब्रजामस्तत्र चैत्ये, तदा श्रेष्ठी भणति-यूयमेव क्षीणकर्माणः अन्योपार्जितधनभोक्तारो निश्चिन्ताः स्थ, नूनं भवन्त इव वयं न तादृशास्तत्र गन्तुं सावकाशाः, अस्मत्कार्य यूयमेव कुरुत, इत्यादि श्रुत्वा धवलं दुर्ग्रहमिव मुक्त्वा सर्वसार्थवाहपरिकरितः कुमारसहितो जिनदासो जिनभवनपार्चे गतः, ततः कुमारी भणति-भो भो जनाः! पृथक् पृथक् गच्छत येन द्वारोद्घाटकः पुमान् स्फुट लक्ष्यते, तदा परिकरो वदति-स्वामिन् ! मैवं समादिश, मूर्यमन्तरा कः कमलवनं प्रबोधयति शशिनं विना कः कुमुदवनोल्लासं कुरुते ? वसन्तमन्तरा को वनराणि नवपल्लवाङ्कुरितां विदधाति ? सहकारमन्तरा कः समुद्घाटयति कोकिलाकण्ठं ? तद्वत् त्वां विना न कोऽप्युद्घाटयितुं प्रभुः, ततः कुमारस्तुरगादिकं मुक्त्वा विहितोत्तरासङ्गः कृतनैषधिकाशब्दः सिंहद्वारं प्रविश्य यावत् रंगमण्डपे याति उत्फुल्लनयनमुखकमल: तावत् कृतकिंकाररवं अररियुगं झटिति राजसुता
१ यदागमेनोद्धटते इति पाठः ।
Jain Education
anal
For Private & Personal Use Only
Finelibrary.org