________________
ज्ञानवि०
कृतम्
॥१४॥
Jain Educatio
प्राप्तिचिन्ताशल्यितो राजा ध्यानलीनमुनिवच्छून्यमनाः क्षणं स्थित्वा निर्गतः सुतापि पूजां कृत्वा कृतत्रिणामा यावता पश्चिमपादैर्जिन गर्भगेहान्निर्गच्छति तावता तत्कालमेव तद् द्वारकपाटसम्पुटं तथामिलितं यथा बलिनापि केनाप्युद्घाटयितुं न शक्यते, तदसमञ्जसं विलोक्य निन्दत्यात्मानं नृपसुता अहो हताशा कृतपापाऽशुभभावा अधन्याऽहं अज्ञानवशेन काप्याशातना जाता, एनं ममापराधं क्षमस्त्र प्रसादं कुरु ददस्व दर्शनमित्यादि विलपन्तीं स्वनन्दिनीं निरीक्ष्य राजा वक्ति-भो वत्से ! नास्ति तवापराधः किन्त्वस्ति ममैवात्र दोषः, यज्जिनगृहमध्यगतोऽहं त्वद्वरचिन्तया शून्यमनस्त्वेन स्थितः, अतो मनोनैकत्वकररूपाशातनायाः फलमेतज्जातं तेनाहं निजापराधमेव तर्कयामि, वीतरागो भगवान्नैव केषांचिदुपरि शेषमाधत्ते, परं जिनभुवधिष्ठायकेन कृतमस्ति, ततो नरेन्द्रोऽपि बलिकुसुमचन्दनकर्पूरागुरुमृगनाभिधूपप्रवरभोगमानाय्य धूपधाम गृहीत्वा विधाय धूपप्रदीपादि निश्चलगात्रो निर्मलमना नन्दिनीयुतः सचिवादिपरिच्छदवृतः स्थितः, तदा रङ्गमण्डपोऽपि जनहृदये रङ्गं नोत्पाद|यति, केsपि कन्यादूषणं केपि नरेन्द्रस्य केऽपि देवस्य वदन्ति, बहुप्रकारः मलापो लोकानां जातः, उपवासत्रयं जातं, तस्मिन्नवसरे पाश्चात्य त्रिशेषे एतादृशी गगनवाणी जाता, दुहा- “ दोस न कोई कुमारिया, नरवर दोस न कोय । जिणकारण जिणहर जड्यो, तं निसुणो सहु कोय ॥ १ ॥ " एतादृशं ध्रुवपदं श्रुत्वा बाला हर्षजनितरोमाञ्चा जाता, राजाऽपि सानन्दो जातः, लोका अपि प्रमोदं प्राप्ताः, परं चिन्तयन्ति - केन हेतुना दत्तं द्वारामिति ? , ततः पुनर्वाणी जाता - " जसु नर दिहिहिं होइस्यें, जिणहरु मुक्कदुवार । सोइज मयणमंजूसियह, नियें होस्यें भरतार || १ || " | ततो गाढतरं हृष्टाः सर्वेऽपि राजादयः, एवं कदा भविष्यति इति चिन्तातुराः, ततः पुनर्वाणी जाता - दुहा " श्रीरिसदेसर ओ
For Private & Personal Use Only
श्रीपाल चरित्रम्.
॥१४॥
ainelibrary.org