SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Jain Education द्विविधे नैव, लीनाश्चारित्रधर्म्मणि ॥ ४१ ॥ दण्डगारवशल्यैश्व त्यक्ताः प्रोति पार्श्वकाः । कथयन्ति चतुर्भेदं धर्मं त्यक्तकपायकाः ॥ ४२ ॥ पञ्चा ( त्यक्ता )व्रतप्रमादाश्च त्यक्तसङ्गाः कृतादराः । महाव्रतेषु पञ्चस्वेतेष्वाचारेषु सङ्गताः ॥ ४३ ॥ त्यक्तहास्यादिषट्काच, रक्षन्तः षट्कमङ्गिनाम् । हर्त्तारो भयसप्तानां ज्ञातारो नयसन्ततेः ॥ ४४ ॥ निम्नन्तश्च मदानष्टौ पालयन्तः प्रसूः श्रुतेः । वारयन्तो निदानानि, नवब्रह्मधारकाः ॥ ४५ ॥ वहन्तो दशधाधर्म्म, क्षान्तिमुख्यं जिनोदितम् । इत्याद्यसङ्ख्यसङ्ख्यावद्वयस्ते मुनयोऽजयन् ॥ ४६ ॥ जनानां भवपाथोधौ, मज्जतां तारणाय ये । मूर्त्ताः पोतायमानाः किं, दृश्यन्ते साधवो हामी ॥ ४७ ॥ गते जिने जिनाभासाः, विहृताः कर्म्मभूमिषु । शुद्धोक्त्या तपसा चाप्ताज्ञापालनकृतोद्यमाः ॥ ४८ ॥ भवलभ्येऽर्थे प्रीतिर्नैवास्तिक्यं विदोषवाक्येषु । नाव्यक्तं मित्थात्वं सदयत्वं सत्क्रिया गुणिषु ॥ ४९ ॥ यस्यैते पञ्चगुणा, गुणानुबन्धित्वमेव जनयन्ति । अपुनर्बन्धकताया, बीजं सदर्शनं नाम ॥ ५० ॥ सुदेवः सुगुरुः शुद्धधम्मों ज्ञायेत येन तत् । दर्शनं वासनारूपं, सत्तत्वश्रद्दधानतः ॥ ५१ ॥ तत्रौपशमिकं क्षायोपशमं क्षायिकं तथा । सास्वादनं वेदकं च पञ्चधा तत् प्रकीर्त्तितम् ।। ५२ ।। | स्यादर्द्धपुद्गलावर्त्तमानाविशेषिते भवे । लभ्यं निर्याणसम्प्राप्तिप्रतिभूसममीरितम् ॥ ५३ ॥ आसंसारं भवेदोपशमिकं दर्शनं तथा । पञ्चवारं भवेत् क्षायोशमं स्यादसङ्ख्यशः ॥ ५४ ॥ वेदकं क्षायिकं चैकवारं स्यादात्मरूपनम् । अपौगलिकमाख्यातं, | दर्शनं सर्वदर्शिभिः ॥ ५५ ॥ यद्विना ज्ञानमज्ञानं, चारित्रं भवनाटकम् | वेषमात्रं क्रियाकष्टकारि हारि बहिः सुखैः ॥ ५६ ॥ दर्शनेन विना प्राप्तं, चारित्रं स्यादनन्तशः । महोदयपदप्राप्तिहेतुकं नो गतं कदा ॥ ५७ ॥ लभ्यते तूपशमिकं, पूर्व तदनु चापरम् । क्षायोपशमं क्षायिकं वा मिथ्यात्वं यथाभवम् ॥ ५८ ॥ ज्ञानचारित्रयोर्मूलं निदानं शिवशर्मणः । सप्तषष्टिमितैर्भेदैर्भूषितं दर्शनं मतम् For Private & Personal Use Only helibrary.org
SR No.600131
Book TitleShripal Charitram Sanskrit Kavyam
Original Sutra AuthorN/A
AuthorGyanvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1921
Total Pages96
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy