________________
श्रीपाक
चरित्रम्
स्त्रीरुपधवल । यदि भवन्तोऽस्मदीयमेकं कृत्यं कुर्वन्तु केनाप्युपायेन, तदाऽहं भवतां भूरिधनमाजीवितान्तं ददामि, इति निशम्यैकेन वृद्धगमनं मद- गायनेनोक्तं, तत् किं कृत्यं, कथ्यता, वयं करिष्यामो भवत्कार्य सभ्यमसभ्यं यत् किश्चिदपि, तदा तुष्टेन धवलेनोक्तं राज्ञो
नागृहे जामाता हन्यतामिति श्रुत्वा डुम्बकेनोक्तं, एतादृशोऽपवादं कर्तुं न शक्यते, परं स्वकीयोऽयमिति कथिते स्वयमेव राजा हनिष्यत्येनं, हुम्बकुटुंबा तदा कार्यसिद्धिः सुखेन भविष्यतीति मन्त्रयित्वा कोटिशो धनमधमणीकृत्य सिद्धान्तः समीहितमिति तुष्टेन धवलेन सत्यंकारार्थ गमनम्
स्वकरमुद्रारत्नं वेगेन तेषां स्वपाणापहरणसंस्कारामिव प्रदत्तं, तेऽपि मुदितमानसा राज्ञो गवाक्षाधो मधुरस्वरं गायन्ति ।
अथ कम्बुकोमलकण्ठकमलनादरसास्वादमुदितमानसो राजा जल्पति, भो गायना ? यद्रोचते तद् याचचं, तुष्टोऽई ददामि धनादि, तदा वृद्धेनोक्तं-स्वामिन् ! सर्वत्राऽर्थादिकं लभामहे, परं राजमानं दीनजातीनां दुष्कर, 'मानो हि महतां धन मिति न्यायात् । | त्वदीयं मानमिच्छामः, तन्निशम्य राजा भणति, यस्याऽहं मानं ददामि तस्य ताम्बूलं प्राणपीयमज्जामातकरेणैवेति प्रसादप्रत्यय. पूर्वकं धनं यच्छामि, तदा सकुटम्बो डुम्बो भगति, महाप्रसादं कुरुत, इत्युक्ते यावता राज्ञो जामाता तेषां ताम्बूलं ददाति, तावता सहसा एका जरती जसति कण्ठे लगित्वा-हे पुत्र ! एतावत्कालं क गतोऽभूः, पुनरेका भगिनीभूत्वा वदति-भो भ्रातस्त्वं हंसद्वीपे गतोऽश्रावि, पितृष्वमृभूताऽन्या प्रवदति-भो भ्रातृव्य! कुत्र कुत्र तटे गतः, एकस्तु जनकीभूय वदति-पुत्र! तवैतादृशो रोषो न युज्यते येनाऽस्माकं दृष्टिपथं चिरमागतः, काचिद्देवरोऽस्ति काचित् पतिरिति कश्चित् भ्रातेति भागिनेयमातुलादिसर्वैरपि अकाण्डकोलाहल: प्रारब्धः, सम्यग् जातं राजाप्रसादप्राप्तिमिषात् त्वं मिलितः । फलिता मनोरथा अस्माकमिति असमञ्जसं वचः श्रुत्वा सर्वेऽपि विस्मिता, किं जातमिदं, राज्ञापि चिन्तितं धिग् मामविमृश्यकारिणं अनिन्धवन्धकुलं निन्दितं अनेन पापकर्मणा तत एष झटिति |
Jain Education Hel
For Private & Personel Use Only
Inelibrary.org