________________
मे पुण्योदयो, यतोऽसावुपद्रवो विलयं यातः, यद्येते रमण्यो मत्कलत्रभावमाप्नुयातां तदाऽहं इन्द्रादप्यऽधिको भवेयमिति चिन्तयित्वा दूतीमुखेन ते प्रार्थिते, ताभ्यां सा बाढं निर्भत्स्य निष्कासिता, तथापि कामपिशाचाधिष्ठितो नष्टनिर्मलविवेकस्तेनाऽध्यवसायेन क्षणमपि सुखं नामोति, अन्येयुः कामग्रहमथिलो महिलारूपं कृत्वा स्वयं स पापिष्ठः प्रविष्टो | मदनागहं यावद्विलोकयति, तावत्पुरःस्थितमपि मालानुभावाददृश्यरूपां मदनां न पश्यति, रागान्धो अन्धवदितस्ततो
भ्रमति, ततो दासीभिश्वाऽवकरपुञ्जवत् कुट्टयित्वा बहिनिष्कासितः । इतो वोहित्थमार्गान्यमार्गेण निर्गत्य स्वयमेव कुणतटे किञ्चिदूनमासेन प्राप्तो धवलः, प्रथममुत्तीर्य महऱ्या प्राभूतमादाय यावदाजानं प्रति याति, तावन्नृपपाचें स्थित श्रीपालं पश्यति, राज्ञाऽपि तस्य सार्थवाहस्यात्यन्तं सुखप्रश्नपूर्वकं बहुमानं प्रदत्तं, श्रीपालेनापि विशेषतस्ताम्बूलं दत्तं, दृष्टमात्रः श्रेष्ठी कुमारेणाऽपि ज्ञातः, श्रेष्ठिनाऽपि ससम्भ्रममुपलक्षितः, धिग् धिग अहो ? किं जातं, किमेष श्रीपाल: ? किंवा तत्सदृशोऽन्यपुरुषः ? क्षणं स्थित्वा | | राजसदास यावदुत्थितो धवलश्रेष्ठी प्रतीहारं पृच्छति, कोऽयं स्थगीधरः ? तदा तेन सर्वोऽपि वृत्तान्तः कथितः, तत् श्रुत्वा जातो वजाहत इव दुःखीसन् चिन्तयति-अहो विषमं विधिविलसितं, यद्यत् करोमि कार्य तत्तत्सर्वं विपरीतमेव भवति, एष श्रीपालो जामाता | जातो नरेन्द्रस्य, पुनर्ममापराधो महान् न जाने किं भावीदानी, तथापि स्वकीयकार्यविषये धीरेणाभियोगो न मोक्तव्यः, यदुद्यमवत्माणिगणेभ्यो विधिरपि शङ्कते, यतः-उद्यमः साहसं धैर्य, बलं बुद्धिपराक्रमौ । षडेते यस्य विद्यन्ते ततो देवोऽपि शन्ते ॥१॥ इति पालोच्य प्राप्तो निजोतारे । तत्र चैकं गीतनृत्यनिपुणं डुम्बकुटुम्ब सम्माप्तं गायमानमास्ते, सोऽपि चिन्ताकुलो धवल: कपटप्रबलो गायनानां दानं नाप्पयति, तदा पृष्टं गायनकुलेन, देव ! किमस्माकमुपरि रुष्टोऽसि? इति श्रुत्वा स एकान्ते गायनानां कथयति,
Join Educatio
n
al
For Private & Personal Use Only
inelibrary.org