________________
Jain Educa
हन्तव्यः एवेति विचार्य नैमित्तिको वद्धस्तलवरेण भणितो, रे ! 'दुष्ट ! मातङ्गोऽयमिति' कथं न कथितः त्वमेव वध्य इत्युक्ते नैमित्तिको वदति, स्वामिन्नाऽयं मातङ्गः, किंतु महामातङ्गाधिपतिरयमत्रार्थे संशयो न कार्यः, तेन वचसा विशेषेण रुष्टो राजा वक्ति, जानता त्वया कथं नोक्तं, ततो राज्ञा नैमित्तिकः कुमारश्च वधाय आदिष्टः यावता समर्पितः सुभटानां तावता मदनमञ्जर्यपि नामसमयप्रवृत्तिं श्रुत्वा समागता तत्र तूर्णं वक्ति - किमिदमत्रिचार्य कार्यमारब्धं, आचारेणापि कुलं न ज्ञायते ? 'आचार: कुलमाख्यानी' ति न्यायात् लोकोत्तराचारेण किमयं मातङ्गने भवति ? जिनपूजनचारुवचनरचनाचातुरी विरेचितेनापि किं नाज्ञायि ? इति पुत्रीवचः श्रुत्वा नरनाथः कुमारं प्राह-भो दर्शय निजकुलं, मार्जयाऽपवादमन्त्रमितिश्रुत्वेषद्विहस्य दशनदीधितिप्रकाशित दिक्चक्रवालो राज्ञश्छेकत्वं हसयन्निवेोक्तवान् कुमारः-स्वामिन् सत्या विहितैषा लोकोक्ति, पीऊण पाणियं पिय पच्छा पुच्छिनए गेहूं' तत्तस्मायदि संशयवानसि तदा कुरुत सैन्यं सज्जं मद्धस्तावेव कुलं प्रकटयिष्यतः कुलीनाः स्वमुखे स्वप्रशंसां न वदन्ति “इन्द्रोऽपि लघुतां याति स्वश्लाघां स्वानने वदन् । यथा स्वयं हसन् वक्ता, यथा स्त्री स्वकुचार्दिता " ॥ १ ॥ अथवा प्रवहणान्तः स्थिते देखियौ स्तस्ते पृच्छत, यथा कुलज्ञानं ज्ञायते । ततो विस्मितो राजा धवलमाकार्य पृच्छति, कथय रे ! प्रवहणे द्वे स्त्रियौ स्तः नवा ? तथा पापपरिमलो धवलो वक्ति, स्वामिन विद्यते तच्छ्रुत्वा नरेन्द्रेण स्वप्रधानपुरुषाः प्रेषितास्तदानयनाय तैस्तत्र गत्वा भणितंवत्से समागम्यतां पतिकुलप्रवृत्तिकथनार्थ, तच्छ्रुत्वा हर्षिता मदना शिविकामारुह्य सम्प्राप्ता नृपभुवने प्राणप्रियमालोक्याऽऽनन्दमेदुरितानना जाता मधुमालोक्य पिकवालिकेव शशाङ्कमिव चकोरकिशोरी घनमिवमयूरी, तदा राज्ञा पृष्टं भो वत्से मार्जय सन्देहरजोऽस्मच्चित्तमंदिरादामूलचूलकुल प्रकटनोदन्त कन्तवाक्पञ्च पवनेनाऽऽश्वासयाऽस्मान् जनप्रवादप्रचण्डानलतप्तान । ततो विद्या
mational
For Private & Personal Use Only
www.jainelibrary.org