________________
rx
ज्ञानवि०
कृतम्
॥१२॥
Jain Education In
ase परिपन्थिकप्रवणानि दृष्ट्वा यन्त्रादिकं सज्जीकुर्वन्ति केऽपि जलधिमध्ये रवेरस्तोदयं पश्यन्ति, केऽपि विविधनक्रचक्रपाठीनपीठवाडवाल मुर्द रहस्तिप्रतिमल्लतन्तुमत्स्यादीनां विविधविनोदाश्चर्याणि पश्यन्ति एतादृशान्याश्चर्याण्यवलोकमानाः सर्वे यावता यान्ति तावता कर्णधारेण प्रोक्तं- अत्र, बर्व्वरकूलं समागतं, यदि जलेन्धनपाथेयादिग्रहणकृत्यं भवेत् तदा त्वरितं ग्राह्यं विलम्बो न कार्यः, तं श्रुत्वा सप्रमोदाः सर्वे लोकास्तग्रहणाय समुत्तीर्णाः दशसहस्रभटपरिवेष्टितो धवलोsपि तटे स्थितः । अत्रान्तरे जनकोलाहलं श्रुत्वा वर्च्चरराजनियुक्ताः शुल्कग्राहिणः पुरुषास्तत्र समेताः, शुल्कं मार्गयन्ति परं दपाध्मातः श्रेष्ठी नार्पयति तदा तैः स्वराजा विज्ञप्तः, तत्र भूरिलो महाकालोऽप्यागत्य शुल्कादिभागं मार्गयति, परं श्रेष्ठी नार्पयति, सुभटान् प्रेरयति च, उद्भटविकटशस्त्रा धवलभटा बरकूल सह युद्धं व्यधुः, प्रथमं महाबलभटवलं भग्नं, तत् दृष्ट्रा पुनमर्हकालवलेन त्वरितं महद्धलमुत्थापितं बर्बराधिपतितेजोऽसहमाना धवलभटार्नष्टाः, ततः पादचारी धवलः संग्रामार्थमागतः पातयित्वा बद्धो वर्व्वरेण, सार्थरक्षणे स्वनियुक्तान् प्रस्थाप्य स्वयं स्वपुरे गतः तदवसरे कुमारो धवलं प्रत्याह- भोः श्रेष्ठिन् । कुत्रगतास्ते सुभटा येषां कोटी समर्प्यते, तदा घवलो भणति भो महाभाग ! क्षते क्षारक्षेपणं दग्धोपरि स्फोटकभवनं पतितस्य लत्ताप्रहार : मृतस्य मारणमिति न्यायं करोषि तदा कुमारो भणति स्फुटं - अद्यापि यदि कोपि त्वत्सर्वस्वं प्रतिगृह्णाति तस्य किं प्रदीयते ?, धवलो भणति - न सम्भवत्येवं कदापि यदि कोपि एवं कुर्यात् तदा तस्य सर्वस्यार्द्धं ददामि, अत्र कः प्रतिभूः, तदा श्रेष्ठी वदति-सत्पुरुषाः प्रमाणमिति श्रुत्वा धनुर्द्धरः कुमारः अंसन्यस्तोभयतूणीरः पृष्ठे गत्वा महाकालं भणति - भो बर्न्दर गन्तुंनो पुज्यते, क्षणमेकं मम वलं त्वया प्रेक्षणीयम्, तन्निशम्य पश्चाद्वलित्वा महाकालो जल्पति - बालोऽसि दर्शनीयाऽसि, रूपलक्षणलावण्यादिगुणरत्नरोहणोऽसि, किमर्थं त्वं मुधा क्लेशमनुभवसि, तदा कुमारो भणति - भो नृप ! बुबकाः पुरुषाः
For Private & Personal Use Only
श्रीपाल चरित्रम्
॥१२॥
nelibrary.org