________________
ज्ञानवि० कृतम्
चरित्रम्.
॥४॥
मितो भणति-रे मुखरिके! असम्बद्धभाषिके मत्प्रसादेन मनोजें खाद्यादिकं स्वाधमाना वस्त्रालङ्कारादि परिदधाना सती इमं भणसि, इति श्रुत्वा मदना भाषते-तात! त्वद्नेहेऽपि सुकृतवशेनोत्पन्ना सुखानि भुजे, जीवानां पूर्व कृतं सुकृतं सुखकारणं दुष्कृतं दुःखकारणं, यतो बुद्धिबलसमृद्धैः सुरासुरनरवरैरपि कर्मपरिणामो न स्खल्यते इति श्रुत्वा रुष्टोराजा भणति-अहो ! एषा अल्पपुण्या दुर्विदग्धा मत्कृतं गुणं | किमपि नो मन्यते? तदा सभालोको भणति-स्वामिन् ! मुग्धमतिरियं किं जानाति?, त्वमेव रुष्टः कृतान्तः तुष्टःकल्पतरुरिव जनानां सुख| दुःखकर्ता न अन्यः कोऽपि, इति श्रुत्वा पुनर्मदना भणति-धिर धिगिमान् धनलवार्थिनो जनान्, यतो जानन्तोऽप्यमी मुखप्रियं परिणामे |
अप्रियमलोकं जल्पन्ति, यदि तात ! त्वत्प्रसादादेव सेवकलोकाः सुखिनो भवन्ति, तदा एके सुखिनः एके दुःखिनः इदं कथं स्यात?, तस्मात् यो युष्माकं रोचते स एव वरो भवतु,यदि ममास्ति पुण्यं तदा निर्गुणोऽपि सुगुणो भविष्यति,यदि नास्ति पुण्यं तदासुन्दरोऽप्यसुन्दरो भविष्यति, सर्व कर्मवशादेव सम्पद्यते, ततो गाढतरं राजा रुष्टः, दुर्विदग्धया एतया अहं वचनमात्रेणैव वैरीकृतः। ततो विकटभकुटीभीषणवदनं राजानं विलोक्य दक्षो मन्त्री भणति-स्वामिन!इदानीं राजपाटिकायाःसमयोऽस्ति, तन्निशम्य रोषाग्निना धगधगायमानो नरनाथोऽपि तुरगरत्नमारुह्य सामन्तमन्त्रीसहितो राजपाटिकायां निर्गतो, यावता पुराद्धहिनिर्गच्छति तावता पुरतः साडम्बरमागच्छन्तं जनवृन्दमपश्यत्, विस्मितेन राज्ञा ज्ञातवृत्तान्तो मन्त्री पृष्टः-किमिदं?,देव! शृणुत कथयाम्येतजनवृन्दपरमार्थम्, स्वामिन सुरूपा नववयसः शोण्डीराः दुष्टकुष्ठाभिभूताः सप्तशतीमिता:पुरुषा एकत्र संमिलिताः सन्ति, तेषां मध्ये उदम्बरव्याधिग्रस्ताङ्गएको बालो मिलितस्तैः स परिगृहीत उम्बरराजेतिकृतनामा वरवेसररत्नमारूढो वृद्धोऽस्ति तस्य छत्रधारकस्त्वग्दोषी नाम गतनाशश्चामरधारकः घिणिघिणिशब्दोऽग्रगः | गतकों घण्टावादकः मण्डली अङ्गरक्षकः दर्षितगात्रो बीटकदायकः गलिताङ्गुलिर्नामा मन्त्री केऽपि वामनाः केपि मूचितवातकाः
I
॥
५
॥
Jain Educa
t ional
For Private & Personal Use Only
AMAJainelibrary.org