SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ कुमारहननार्थमारूढा सौधमार्ग, तत्र यावता उच्चैरारोहति, तावता कुतोऽप्यागतया चन्दनगोधया दृश्यमानः उन्मार्गप्रस्खलितचरणः पतितः सौधसप्तमभूमेश्छुरिकयोदरे विद्धः प्राणैरपि पापरूप इतिकृत्वा मुक्तः प्राप्तः सप्तमी नारकावनीं। अथ प्रभाते तं पतितं दृष्ट्वा लोकोऽचिन्तयत्, ज्ञायतेऽनया चेष्टया नूनमसौ कुमारहननार्थ धावितः, एतन् मन्त्रकरणे कुबेरश्रेष्ठिरेव निदानम् एतस्य निदानस्य पापमस्यैव लग्नं । कुमारोपरिद्रोहः कृतः सोऽस्यैव शिरसि पतितः, महात्मनां महात्म्यं न व्रजति, "यश्चिन्तयेत परेषामहितं तस्यैव भवति नाऽन्यस्य । कात्यायन्याः पुत्रौ पञ्चत्वं प्रापितौ यद्वत" ॥१॥ कुमारोऽपि तं तथा पतितं दृष्ट्वा क्षणं चिन्तयित्वा अनर्थोऽयामिति धिगस्तु परद्रोहकारिणं, यतः-"मृगमीनसजनाना, तृणजलसन्तोषविहितवृत्तीनाम् । लुब्धकधीवरपिशुना, निष्कारणवैरिणो जगतिः ॥ २ ॥ तस्योर्ध्वदेहिकं विधाय समाधिना तत्रस्थितो भार्यात्रयं सहितो मुनिरिव त्रिगुप्तियुक्तो नृप इव शक्तित्रयालंकृतो भोगान् भुङ्के, यानि धवलस्य वरबुद्धिदायकानि त्रीणि मित्राणि तानि श्रीपालेनाऽधिकारिपदे न्यस्तानि । अथान्येयुः गजपाटिकायां सपरिच्छदः कुमारो गतः, तत्र स्थितमेकं सार्थसमुदायं दृष्टवान् , सोऽपि सार्थपस्तं समागतं दृष्ट्वा प्राभूतान्यादाय प्रणमति कुमारपादान, स्वागतप्रश्नपूर्वकं पृष्टः कुमारेण स-कुतः समागमनं जातं! कुत्र गन्ता ! किमप्याश्चर्य दृष्टं ! तत्सर्व निवेदयति श्रुत्वा स्पितदीधितिधवलितोष्ठः सार्थश्रेष्ठः पादः-समागतोऽहमुष्णकालेऽपि नितान्तकान्तेन्दुकान्तोपलस्रवत्पयः पूरस्नापितजननिकरात्कान्तीपुरात्, गन्ता कम्बुद्वीपं प्रति, अन्तरा यदाश्चर्य दृष्टं तत् शणुत । इतः कोसानां चतुःशतात्परतो महीमण्डलसुखमारमाविशालभालस्थलललामलीलायमानं कुण्डलपुरं नाम पुरमस्ति, तत्र पवित्रजैत्रप्रतापाक्रान्तारातिवर्गो स्वरूपसौन्दर्य| गर्वखर्वीकृतमकरकेतुर्मकरकेतुर्नाम राजा प्रशास्ति प्रजाः, तस्यास्ति प्रशस्तिरिव जयश्रियः सुवर्णरूपा कर्पूरपारीप्रतिमविमलशील Jain EducationAALI For Private Personel Use Only hinelibrary.org
SR No.600131
Book TitleShripal Charitram Sanskrit Kavyam
Original Sutra AuthorN/A
AuthorGyanvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1921
Total Pages96
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy