________________
धवळमृत्युः सप्तम नरक
गमनं
श्रीपाल चरित्रम्
| तिलका कपूरतिलका नाम्नी प्रिया, तत्कुक्षिसरोजिनीभृङ्गभूतो तनयो सुन्दरपुरन्दराख्यौ स्तः, तयोरुपरि चैकतनयाऽस्ति शस्तगुणगौणीकृतत्रिदशसुंदरी गुणसुन्दरीतिनाम्नी रूपेणाऽपूर्वा रम्भा वृषाश्रिताऽपि न बलद्विषत्सङ्गिनी कलाकलापेनाऽभिनवा ब्राह्मी किं बहू- क्त्या ? यतः-गरूपस्वराधीततालतन्त्र्युद्भवाः गुणाः। शोश्रूयन्तेऽनिशं कर्णैर्यदीया वेधसाष्टभिः ॥ १॥ साम्प्रतं प्राप्तयौवनया तया प्रतिज्ञा कृताऽस्ति, 'यो मां जयति वीणावादनपुरस्सरं सङ्गीते सोऽङ्गीकर्तव्यो भर्तृत्वेन, नाऽन्यः, विनापरीक्षा कार्यमाजन्मशल्यतुल्यं | भवेत् , यथा “ सुहृद्गोष्ठीपटिष्ठानां याति कालः सुखावहः । तदन्यानां पुनः कालः, कालरूपो भवेत् सदा ॥ १॥ यथा वन्ध्यगवी| कण्ठे, डहरो बाधतेऽनिशं । तथा लीलावतीनां च, शठो भर्ता पदे पदे ॥ २ ॥ भल्लुकानां मनः प्रीतिदक्षैः कर्तुं न शक्यते । पुष्करावर्त्तमेधैनों, भिद्यते मुद्गशैलकः ॥३॥ निर्गुणेन समं वासो, मा दद्याविषितो यदि । दारिद्यार्त्यादिकं कष्टं, गुणिनामप्पये विधेः" ॥ ४ ॥ इति चेतसि विचार्य प्रतिदिनमभ्यस्यति सङ्गीतकला, तच्छुत्वा नरेन्द्रनन्दनाः सुहन्नयनचन्दनास्तत्राऽनेके मिलिताः सन्ति, मासे मासे परीक्षा क्रियते, परं न केनाऽपि जीयते प्रत्यक्षसरस्वतीकल्पाया अस्याः सङ्गीतं, मयापि तत्र प्राप्ते|नैतदाश्चर्य दृष्टं, क्रमेणाऽत्र त्वमपि दृष्टः, ज्ञायते चेतसीदं चेयुवयोः संयोगो भवेत्तदा सुशिक्षितो विधिः।
प्रद्युम्नरसालसालसुभगा मंजाप्रजानाथ हे ! भृङ्गास्त्वं च युवा तदुग्ररसया युक्तं हि योगस्तया। आयासोऽपि विधेस्तदा सफलता यायायशोविष्टपे, दक्षोऽयं घटनामिति प्रसरतु स्वस्त्यस्तु ते साम्पतम् " ॥ १ ॥ इत्यादि मधुरवाक्सुधारससिकतो राजा तस्मै प्रशस्तवस्त्रादि पारितोषिकं दत्त्वा सन्ध्यायां निजावासं प्राप्तश्चिन्तयति चित्ते। 'कथमेतत्कौतूहलं पश्यामि ', अत्र नवपदध्यानमेव प्रमाणं इति चिन्तयित्वा यावता नवपदध्यानं ध्यायति, तदा |
॥२३॥
Jain Education Helona
For Private & Personel Use Only
widainelibrary.org