________________
गणयुतकं हार कशावतो यावता कुडा वचोतिगो नकाशं ?--अ
सौधर्मकल्पवासीदेवो विमलेश्वरः करकमलगृहीतनिर्मलहारः प्रत्यक्षीभूय वक्ति-गृहाणेमं हारं, शृणु तत्मभावं-कीदृशोऽयं | हारः ? इच्छाकृतियोमगतिः कलासु, पौढिर्जयः सर्वविषापहारः । कण्ठस्थिते यत्र भवन्त्यवश्यं, कुमार! हारं तमिमं गृहाण ॥१॥
एवं वदन्नेव स सिद्धचक्राऽधिष्ठायकः श्रीविमलेशदेवः । कुमारकण्ठे विनिवेश्य हार, जगाम धामाद्भुतमात्मधाम ॥२॥ | इति गुणयुतकं हारं कण्ठे परिधाय निश्चिन्तः सुप्तः ।
अथ प्रभाते उत्थितो यावता कुण्डलपुरं मनसि कृत्वा, तावतात्मानं हारमभावेण कुण्डलपुरं प्राप्तं पश्यति, सर्वेऽपि जना वीणाहस्ता दृष्टाः, चिन्तितम्-अहो वचोतिगो नवपदप्रभावः, साधयामि सङ्गीतं, परमसदृशरूपेण यदा साध्यते तदाश्चर्य भवेल्लोकानामिति चिन्तयित्वा वामनरूपं विहितं तत्कीदृशं ?–अलावुकलिकानिभा दशनमालिका राजते, स्थपुटवदननिर्गतप्रलंबाधरोष्टः स्फुटं । झरनयननासिकः कुतुभसन्निभं मस्तकं, जुगुप्सितकफस्र मुखमहोघनश्यामलं ॥ १ ॥ गिरिशिखरसदृक्षः पृष्ठदेशः प्रचण्डः, कटिरुदरविल्मा हस्वजनोरुजानुः । इति सकलजनानां दर्शनाय स्वरूपः, किमि सदसि भावी वैणिकानां प्रणेता ॥ २ ॥ इत्यादि वाक्यरचनापरैलॊकैईस्यमानो वैणिकाचार्यपार्चे गत्वा महाखड़ प्राभतीकृत्य पाह-शिक्ष्यतां वीणा, योग्योऽहमेभ्यः, स्मितपूर्वकं वचः श्रुत्वा अनर्घ्यढोकनं दृष्ट्वा च गुरुणा तस्य करे स्वरसाधनप्रवणा वीणा दत्ता, सा साध्यमाना विपर्यस्तहस्ताङ्गुलीत्वे तत्सारिकास्त्रोटिता, भग्नं कोणकं, जर्जरीकृतानि तुम्बकानि, सर्वेषां हास्यरसमेव वर्द्धयता तन्त्रावितन्त्रीकृता सभ्यैहास्यविशदीकृतः सङ्गीतमण्डपः, वक्ति वामनः-नास्ति कोऽपि वैणिको येन सह गीत| गोष्ठीविधीयते, परं वीणापिशुद्धा नास्ति, या वाद्यते दयते स्त्रविज्ञानं च, इति तद्वचनं निशम्य तदा सर्वैः सम्भूय प्रावेशितः कुमारीगृहं,
Jain Education.
com
For Private & Personal use only
MIhinelibrary.org
N