________________
धृतवरभक्षसुभोजनशालम् । दापितधवलसुवासिनीवर्ण, वृद्धपुरन्धिनिदर्शितमार्गम् ॥२॥ मार्गणजनतादापितदानं, स्वजनजनैर्विहितादरमानम् । मर्दलगुन्दलहर्षितलोकं, स्वजनमनोजनितप्रमदौघम् ॥ ३ ॥ कारितसुरसुन्दरिशृङ्गारं, शृङ्गारितरिपुदमाकुमारम् । करमोचनदापितकरितुरगं, जनितजनकजननीस्वकदर्पम् ॥ ४ ॥ एवं विहितोद्वाहो रिपुदमनो लब्धहयगजसनाथः । सुरसुन्दरीसमेतो निर्गच्छति पुरवराद्यावत् ॥ ५॥ अनुरूपोऽयं योगो, भणति जनश्चानयोरियं धन्या । केऽपि नृपं जनयित्रीं स्तुवन्ति तनयां च शिवधर्मम् ॥६॥ सुरसुन्द- मानं मदनाया हीलनां च संवीक्ष्य । श्लाघां शैवे जैने निन्दा कुर्वन्ति मूढजनाः ॥ ७ ॥ इत्यादिव्यतिकरे जाते तदसमञ्जसमीक्षमाणः सहस्रकरोऽपि दुःखदुःखित इवास्ताचलं प्राप्तः । इतश्च मदनापि रात्रौ उम्बरेण भणिता-भद्रे! शृणु मदीयां प्रवृत्ति, राज्ञा इदमयुक्तं कृतं, तथापि किमपि न गतं विनष्टं च नापि, अद्यापि त्वं किमपि नररत्नं गवेषयित्वा तत्र गच्छ, येन त्वद्रूपलावण्यादिगुणा विफला नो भवन्ति, इह कुष्टिपेटकस्य मध्ये तवापि वपुःकान्तिर्यथावस्थितस्वरूपा न स्थास्यति, प्रायः कुसङ्गात् कुसङ्गतिरेव जायते; ममापि कुष्ठत्वं सङ्गादेव जातमितिश्रुत्वा नयनांशुनीरकलुषवदनया पतिपदमणमननिवेशितोत्तमाङ्गया मदनया भणितं-स्वामिन्सर्वमेतद्वचनं मन्मनोदुःखकारकं जायते, प्रथमं तु अनन्तानन्तपापराशिबद्धं महिलाजन्म प्राप्यते, तदपि शीलेन विना कुथितकाजीकनीरवदसारं विधीयते, यदुक्तम्-"सील चिय महिलाणं, विभूसणं सीलमेव सव्वस्सं । सीलं जीवियसरिसं, सीलाओ न सुंदरं किंपि ॥१॥ ततः स्वामिनाजीवितं त्वच्चरणमेव शरणं, नान्यो विकल्पो, यद्भाव्यं
तदेव भवतु, इति निश्चयं विज्ञाय तच्छीलदृढसत्त्वप्रेक्षणार्थमिव सहसा सहस्रकिरणोऽप्युदयाचलचूलिकांप्राप्तः, स उम्बरराजापि तत्समेतः | A प्रत्यूषसमये श्रीरुषभदेवभवनं त्वरितं गतः, अतिबहलविपुलप्रमोदपुलकिताङ्गेन स्वामी नमस्कृतः, जिनमतनिपुणा मदनाऽपि स्तोतुं
Jain Educat
i
onal
For Private
Personal Use Only
SU
jainelibrary.org