________________
Jain Educatio
ग्रहणेन किं ?, परं तत्परीक्षा तु जल्पनेन ज्ञायते, को जानाति कस्य कीदृग् स्वभावः ?, यदुक्तं - " आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अथ रात्रिश्च उभे च सन्ध्ये, धर्म्मश्च जानाति नरस्य वृत्तम् ॥ १॥ दूरतो बहवो राजानः समागमिष्यन्ति, तत्र कथं परीक्षातो लभ्यते इतिश्रुत्वा शृङ्गारसुन्दरी वक्ति-य आत्मीयां समस्यां मूलमण्डपस्थापितपश्च पुत्तलकमुखेन पूरयिष्यति स एव वरत्वेनाङ्गीकर्त्तव्य इति सन्धां कृत्वा ताः स्थितास्सन्ति, राज्ञापि स्वयंवरमहः प्रारब्धः, मिलिताश्चानके विवेकिनृपपुत्राः पवित्राशयाः, सापि पृच्छति तान् समस्यां, परं न कोऽपि तन्मानसमानसस्ताचं लभते राजहंस इति प्रवृत्तिमाकर्ण्य तुष्टः कुमारस्तस्मै पारितोषिकमर्पयित्वा चिन्तयति चित्ते ममापि हारप्रभावेण तत्र गमनं भवत्विति विचार्याश्चर्यातिरेकसञ्जातचित्तचमत्कारः कुमारो गृहं प्राप्तः पुनः प्रभाते तर्कयति--हारप्रभावेणैव राजकन्याः पूर्णप्रतिज्ञाः क्रियन्ते तदा भव्यं भवतीति, विचारमात्रमेव झटिति स्वभावरूपेण पञ्चसखी संयुतराजसुतासनार्थं स्वयंवरणमण्डपं प्राप्तः सापि मारोपमरूपम समलावण्यमगण्यपुण्यं तमागतं वीक्ष्य नृपपुत्री विस्मितहृदया पूर्णप्रणया चिन्तयति - अयमेव समस्यां पूरयिष्यतीति निर्णयः पण्डिता प्रथमपदे चैकं पदं पठति-मणिच्छियं सुहफलं लहए इतिपदं श्रुत्वा पूरणीयं मयैव तत्पदमिति चिन्तयित्वा पार्श्वस्थित पुत्तलकमूर्द्धनि स्वहस्तो दत्तो, दारप्रभावात् स पुत्तलको जल्पति-" अरिहंताइपयनवय, घरे जो णिच्चयं मणे भव्वो । सुरनरमहणीओ सो, मणिच्छियं सुहफलं लहइ " ॥ १ ॥ ततः प्रगुणा पदमेकं वक्ति- अण्णं आलं म जपेद इतिश्रुत्वा कुमारकर पवित्रितः पुत्तलको भणति - " अरेहं देवो सुगुरू, सुद्धो धम्मो दयात्रिसालोय । पर मिट्टीपरममंतो, अण्णं आलं म जपेद्द " ॥ २ ॥ ततो विचक्षणा पठति तृतीयं समस्यापदं - अप्पाणं सुहफलं कुज्जा, कुमारमेरितः पुत्तलकस्ततः पूरयति पादत्रयं - " आराहिऊण जिणगुरू, दाऊण सुपत्तदाणमणवरतं । किच्चा परोवयारं, अप्पाणं सुहफलं कुज्जा " ॥ ३ ॥ ततो निपुणा
ational
For Private & Personal Use Only
Rainelibrary.org