SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ | त्वमोहिता उत्कृष्टदर्पा जाता, अथ मदनसुन्दर्यपि एताः कला लीलामात्रेण शिक्षिताः, विमलप्रज्ञाप्रकर्षेण विनयादिगुणेन च जिनमत| निपुणसुबुद्धिनामाऽध्यापकपार्थे जैनमततत्त्वं तथा शिक्षिता, यथा एकादिपदार्थान् जानाति, एको जीवश्चेतनालक्षणः सत्तारूपः, निश्चयव्यवहारनयभेदाद् द्विविधः, कालत्रिकं अतीतानागतवर्तमानरूपं, गतिचतुष्कं नरकतिर्यग्नृदेवगतिरूपं, पश्चास्तिकायात्मकं धर्माधर्माऽऽकाशजीवपुद्गलभेदात्, द्रव्यषट्कं पूर्वोक्तपश्चकं कालद्रव्ययुतं, नयसप्तकं नैगम १ सङ्ग्रह २ व्यवहार ३ ऋजुमूत्र ४ शब्द५ समभिरूढ ६ एवंभूताचं, कर्माष्टकं ज्ञानावरण १ दर्शनावरण २ वेदनीय ३ मोहनीय ४ आयु ५ नाम ६ गोत्र ७ अन्तराय८ आत्मकं, तत्त्वनवकं जीवाजीवपुण्यपापाश्रवसंवरनिर्जराबन्धमोक्षस्वरूपं, दशविधयतिधर्मस्वरूपं क्षान्तिमार्दवाजवमुक्तितपासंयमसत्यशौचाऽsकिञ्चन्य ब्रह्मस्वरूपं, प्रतिमैकादशकं दर्शनव्रतसामायिकपौषधप्रतिमाऽब्रह्मसचित्तारम्भत्यागपोद्दिष्टवर्जकश्रमणभूतात्मकं, गृहिद्वादशवतरूपं स्थूलमाणातिपातमृषास्तेयाऽब्रह्मेच्छापरिग्रहप्रमाणदिग्विरतिभोगोपभोगानर्थदण्डसामायिकदेशावगाशिकपौषधा| तिथिसंविभागलक्षणं, त्रयोदशप्रमादस्थानकं आलस्यमोहावज्ञास्तब्धक्रोधप्रमादकृपणताऽऽमयशोकाज्ञानव्याक्षेपकौतूहल कामस्वरूपं, गुणस्थानचतुर्दशकं मिथ्यात्वसास्वादन मिश्राविरतिसम्यग्दृष्टिदेशविरतिप्रमत्तसंयताप्रमत्तसंयमनिवृत्त्यनिवृत्तिसूक्ष्मसम्परायोपशान्त| मोहक्षीणमोहसयोग्ययोगिगुणस्थानकरूपं, सिद्धपञ्चदशभेदकं जिनाजिनतीर्थातीर्थगृहिअन्यस्वलिङ्गस्त्रीनरक्लीवप्रत्येकबुद्धस्वयम्बु दबुद्धबोधितैकानेकसिद्धिरूपं, कषायषोडशकं सज्वलनप्रत्याख्यानाप्रत्याख्यानानन्तानुबन्धिचतुष्क क्रोधादिचतुष्केन गुणितं | पोडशकं, संयमसप्तदशकं प्राणातिपातमृपावादादत्तादानमैथुनपरिग्रहाद्विरमणं चक्षुरसनाघ्राणश्रोत्रस्पर्शनेन्द्रियनिग्रहः क्रोधमानमायालोभकषायचतुष्कजयः मनोवचःकायदण्डत्रिकविरमणमिति संयमसप्तदशकं, अष्टादशकं पापस्थानकानां हिंसाऽलीकस्ते. For Private Personal Use Only
SR No.600131
Book TitleShripal Charitram Sanskrit Kavyam
Original Sutra AuthorN/A
AuthorGyanvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1921
Total Pages96
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy