Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Educatio
थभाषणे संघा । लिङ्गान्यमूनेि शुद्धक्रियाक्रियायां निगदितानि || ३८ || मार्गानुयायितत्त्वज्ञानेन विभूषितं भवान्तकरं । अपुनर्वन्धकताया, हेतुमनुष्ठानममृताख्यम् ॥ ३९ ॥ ज्ञेयं तदर्द्धपुद्गल परिवर्त्तान्ते भवापनोदाय । तद्धेतु लब्धबोधौ, त्रिकमन्यत् संतो | बहुशः ॥ ४० ॥ तत्पदन वकध्यानाल्लयो भवेदात्मरूपसम्पन्नः । येनात्मायं दृष्टो, भवकूपो मुद्रितस्तेन ॥ ४१ ॥ भवकोटिसश्चितं यत्, दुष्कृतमर्द्धक्षणेन तद्याति । ज्ञानामृतयुततपसो, दहेदिवैधांसि वायुशिखी ॥ ४२ ॥ सांसारिकसुखमेतद्, जानाति ज्ञानवानसारतया । पुद्रकलीलाललितं, संयोगवियोगनृत्यकरम् ॥ ४३ ॥ ज्ञातो भिन्नत्वेन, पुगळतो भवनिबन्धताहीनः । ध्याननिरावरणतया, ध्याता परमात्मबुद्धया च ॥ ४४ ॥ सिद्धो भवति भवान्तः स्थितोऽपि मुक्तात्मनः समानोऽयं । तस्मादनुभवजन्यं, कार्य विबुधैरनुष्ठानं ॥ ४५ ॥ धर्मः कल्पद्रुमाभोऽयं धर्म्मश्चिन्तामणिप्रभः । निर्मलः केवलालीक कारणं भानुवद्भुवि ॥ ४६ ॥ जम्बूद्वीपोपमो धर्मः, सप्तक्षेत्रपवित्रितः । समुद्रालङ्कृतो भाति, प्रणीतः सर्वदर्शिभिः ॥ ४७ ॥ सुवर्णो विबुधैः सेव्यस्पदोन्नतिविराजितः । क्षमाघरो भद्रशाली, मेरूपोऽस्ति च ॥ ४८ ॥ गुणवृक्षान्वितो भूरिरत्नपूरितमध्यगः । सत्कर्णधारः पाथोधितारको धर्मपोतकः ॥ ४९ ॥ " इति | देशनां श्रुत्वा प्रतिबुद्धा भव्यभव्यजनाः, श्रीपालोऽपि हर्षप्रकर्षरोमाञ्चितदेहो गुरुं नत्वा स्वसंशयं पप्रच्छ-स्वामिन्! केन कर्मणा वाल्ये कुष्ठविनष्टदेहो जातः, पुनर्जलधौ मनः, डूम्बकुटम्बसम्बन्धोऽनुभूतः पुनः स्थाने स्थाने ऋद्धिसिद्धिबाहुल्यं प्राप्तस्तत्सर्वं कृपां कृत्वा प्रसादय, तत् श्रुत्वा दशनचन्द्रदीधितिधौतसामाजिकरजः पटलो विमलज्ञानावलोकिताऽतीतानागतवर्त्तमानसमयोऽजित सेनः प्राह- महाभाग ! जीवानां सुखदुःखवैचित्र्यं कर्मणा निर्मितं भवति, अतः पूर्वकर्म्मवशतः सर्वं सम्पद्यते, यतः - " कृतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ १ ॥” इतिकारणान्निशम्यतां पूर्वभवः । अत्रैव भरतक्षेत्रे
ational
For Private & Personal Use Only
lainelibrary.org

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96