Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
खारिकपुंजयाई, ठावइ अडयाल लद्धिठाणेसु । गुरुपाउयासु अहसु, नाणाविहदाडिमफलाई ॥ १७॥ नारिंगाई फलाई, जयाइठाणेसु असुंठवइ । चत्तारि य कोहलाए, चक्काहिहायगपएसु ॥ १८ ॥ आसनदेसपत्ताण देवीणं बार माउलिंगाई । विजसिरिजक्खजक्खिणी, चउसहिपए य पूगाई, ॥ १९॥ पीयबलीकूडाई चत्तारि दुवारपालगपएसुं । कसिणवलीकूडाई, चउवीरपएसु ठवियाई ॥२०॥ नवनिहिपएसु कंचणकलसाई विचित्तरयणपुण्णाई । गहदिसिवालपएसु य, फलफुल्लाई सुवण्णाई ॥२१॥ इच्चाइ चारुवित्थरसहियं मंडाविऊणमुज्जमणं । न्हवणुस्सवं नरिंदो, काऊणं वित्थरविहीए ।॥ २२ ॥ विहियाए पूयाए, अट्ठपयाराई मंगलावसरे । संघेण तिलयमाला, मंगलकरणं कयं रना ।। २३ ॥ इत्यमुना विधिना उद्यापनं कृतं, तपःकरणे तदुद्यापने च यो वीर्योल्लासस्तदेव मुक्तिबीजं, अभव्यादिजीवास्तपादिकं कुर्वन्ति परं प्रणिधानं नायाति, " दर्शनज्ञानचरित्रतपस्सु प्रणिधानयुक् । वीर्योल्लासः कृतानंदः, प्रोक्तो मोक्षनिदानकः ॥ १॥ क्रियाः फलन्ति सर्वास्ताः, प्राणिनां लघुकर्मणाम् । कूपोद्यमः सिराभूम्यां. कृतः साफल्यमश्रुते ॥२॥ स्वातौ शुक्तिगतं वारि, मुक्ताभं ताम्रपणिगम् । तदेव वारि चित्रायां, सर्वनाशकरं स्मृतम् ॥ ३॥ द्रव्यभावेन शुद्धात्मा, यो भवेत्तेन निम्मितम् । सर्व धर्मादिकं कार्य, स्यान्महोदयसम्पद ॥४॥' सर्वजनसमक्षं श्रीपालप्रजापाल: सिद्धचक्रं स्तोतुमारेभे-यस्याऽर्हत्पदमूलकं दृढतरं श्रद्धालवालान्वितं, सिद्धाचार्यसुवाचका गुणभृतः शाखाः प्रशाखाः पुनः। बोधिज्ञानचरित्रशुद्धसुतपोमुख्याः स्वराढ्याक्षरप्रश्ना लब्धिपदादयो दलभराः छायावरा ऋद्धयः ॥ १॥ स्तम्बास्तद्गुणराजयः सदुदय:
पुण्यानुबन्धी फलं, दिकपालान्वितयक्षयक्षिणिसुरवातः प्रमूनोत्करः । सौभाग्यप्रियतादि गन्धानेकरः श्रीसिद्धचक्राभिधो, दद्यात्ककल्पतरुः स्थितो हितमसौ जैनागमे नन्दने ॥२॥' इति स्तुत्वा तूर्यध्वनिपूर्वकं गीयमानो धवलमङ्गलैः प्रशस्यमानः साधम्मिकजनैः
For Private & Personal Use Only
IMTwainelibrary.org
JainEdar

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96