Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 84
________________ श्रीपालकृ. नवपद स्तुतिः ॥३८॥ वीज्यमानश्चामरैः सपरिच्छदः सभायामागत्य यथोचितं पुनः सवस्य वस्त्रादिभक्ति विधाय सुखेन राज्यं पालयति स्म, तस्य मदनादिकासु नवान्तःपुरीषु त्रिभुवनपालादयो नव नन्दना जाताश्चक्रिणो निधय इव नवसहस्राणि रथा नवसहस्राणि गजः तुरङ्गाणां चरित्रम्, नवलक्षं संजातं, नवकोटयः पदातीनामित्याद्यनेकसौख्यसंस्थापितदेहस्य नववर्षशतानि व्यतिचक्रमुः, त्रिभुवनपालं स्वपदे संस्थाप्य राजा नवपदध्यानमग्नो जातः, स च कीदृग्रूपः ? 'विंशतिस्थानकेनेदं, तीर्थकृनामकर्मसद् । तस्योदयेन संजातस्तीर्थकद्यः स कथ्यते ॥१॥ चतुष्षष्टिसुरेन्द्राणामसजल्यातसुपर्वणाम् । अर्हणामहते तस्मै, नमः क्षीणाष्टकर्मणे ॥२॥ यस्य कल्याणघस्रेषु, मोदन्ते | नारका अपि । चतुर्दशसु लोकेपूयोतो जायते संततम् ॥३॥ यस्य ज्ञानत्रयं सार्धमायाति च्यवनावधेः। यथा रवेरिवालोकः, सहभावी तथा स्फुटम् ॥ ४॥ गृहवासेऽपि सद्भोगान् , सेवमानोऽपि निर्जरी। गृह्णाति दीक्षा लोकानां, शिक्षायै जीतमित्यतः ॥ ५॥ महानिर्यामको गोपो, माहनः सार्थपो महान । दीयते झुपमा यस्य, स वन्द्यो जगतां विभुः ॥ ६॥पातिहार्याष्टकैजुष्टः, पञ्चत्रिंशदचोगुणैः। जगज्जनारविन्दाना, विवोधनकरो जिनः ॥७॥ चत्वारोऽतिशया यस्य, जन्मतस्सहचारिणः । घातिकर्मक्षयादेकादशाप्य तिशयाः पुनः॥८॥ एकोनविंशं देवेन, विहितातिशयाः परे । जगच्छरण्यो रूपस्थध्याने ध्यातो मनीषिभिः ॥९॥ तद्ध्यानादाप्त तद्रूपा, याता यास्यन्ति यांति च। जीवाः संसारिणोऽने के, मरुदेवेव सत्वरम् ॥ १०॥ यदुक्तं श्री शत्रुञ्जयमाहात्म्ये श्रीधनेश्वरमरिणा सातिशयसम्पूर्ण, जिनं चित्ते जिनप्रमः । सुतप्रेम्णाऽपि ध्यायन्ती, तन्मयत्वमवाप सा ॥ १ ॥ व्यापारमखिलं देवी, विमृज्य भवस म्भवम् । चिन्तयन्ती जिनं प्राप, तन्मयत्वमथ क्षणात् ॥ २॥ हृदये दृक्पुरः पार्थे, पश्चाद्वचसि सर्वतः । अपश्यजिनमेवासी,dnsar शिवसौख्यनिबन्धनम् ॥ ३॥ आरुढा क्षपकश्रेणी, कर्मक्षपककारिणां । सा नानाश्रुतविचारं, चैकश्रुतविचारकम् ॥ ४॥ मूक्ष्माक्र Jan Education For Private Personel Use Only

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96