Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 75
________________ सर्वाक्षपाटवं दुष्करं तथा ॥ २॥ कौलीन्यं दीर्घमायुष्कमारोग्यं सुभगत्वकम् । श्रावकत्वं गुरोर्योगः, सामग्री दुर्लभा त्वियम् ॥३॥ मिलितेऽपि तथा योगे, क्रियते विफलोद्यमः । रागद्वेषप्रमादार्तध्याननिद्रालसादिभिः ॥४॥ मिथ्यात्वाविरतिव्याजाऽश्रद्दधानामतरारिभिः । अतथ्यविकथाभिश्च, स्ववादकुमतग्रहः ॥ ५॥ तत्वे श्रुतेऽपि सच्छ्रद्धा, दुर्लभा पारमार्थिकी। गुरुशिष्ययोर्यथायोग, सदालस्यवियुक्तयोः ॥६॥ प्राप्ताप्राप्तविचारेण, यथा विमो द्विपाहतः । तथा स्वमतवादेन, तत्त्वं नामोति मानवः ॥ ७॥ सदास्थाभित्तिके ध्यानलिप्ते चागमपट्टके । तत्वरत्नं निधीयेत, बुध्धैहृदयवेश्मनि ॥ ८ ॥ संवेदनश्चान्यरूपः, स्पर्शनस्तत्वबोधकः। संवेदनस्य वैफल्यं, कदाचिदीप जायते ।। ९ ॥ फलप्राप्तिं समाप्नोति, स्पर्शनस्तत्वबोधकः । तत्वबोधेऽपि सञ्जाते, न स्यात्संवेदनं स्फुटम् ॥ १० ॥ तत्तत्वं दशधा प्रोक्तं, क्षान्त्यादिज्ञानसाधनम् । तत्सर्व विनयायत्तं, गुणा हि विनयादिमाः ॥११ ।। विनयो मार्दवे स्यान्माईवोऽप्याजवोद्भवः। सत्यां निर्लोभतायां स्यात्सा मुक्तिर्गदिता बुधैः ॥१२॥ द्रव्योपकरणाङ्गोषु, भक्तपानेष्वलोभता । भावतोऽपि स्थिरत्वं स्यात् , भावमुक्तिर्मता जिनैः ॥ १२॥ पञ्चाश्रवेन्द्रियक्रोधदण्डादीनां जये भवेत् । सत्यं प्रोक्तं चतुर्दा तत् , मनोवाक्तनुभेदतः ॥ १३ ॥ अविसंवादनयोगाच्च, भयाईकारनाशतः । ततो भवेत्तपः सत्यं, बाह्याभ्यन्तरभेदतः ॥ १४ ॥ एकैकं षड्विधं प्रोक्तं, द्वादशं सर्वदर्शिभिः । कर्मणां तापनादात्महेमशुद्धेस्तपः स्मृतम् ॥१५॥ यदुक्तं-अनशनमूनोदरता, वृत्तेः सङ्केपणं रसत्यागः। कायक्लेशः सँल्लीनतति बाचं तपः प्रोक्तम् ॥ १६ ॥ प्रायश्चित्तं ध्यानं वैयावृत्यविनयावथोत्सर्गः । स्वाध्यायं च तपः षट्पकारमाभ्यन्तरं भवति ॥ १७॥ तदपि द्विविधं प्रोक्तं, प्रतिवृत्ति तथा निवृत्तिभेदेन । तत्संयमेन शुद्धं, स ज्ञेयः सप्तदशभेदः ॥१८॥ पञ्चाश्रवानां विरतिर्जयश्च, पञ्चेन्द्रियाणां च तथा चतुर्णा । क्रोधादिकानां च पुनस्त्रयाणां, दण्डादिमानां विरतिश्चरित्रं ॥ १९ ॥ in Ede For Private Personal Use Only ONainelibrary.org

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96