Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 15
________________ Jain Education In श्वेतमण्डला विकराल गात्रास्तस्य सेवकाः, एवं कुष्ठिकसमुदायेन परिवृतो महीपीठे भ्रमन् राजकुलेषु दानशुल्कं गृह्णन् एषः अत्र आगच्छति, तस्मादिमं मार्ग मुक्त्वा अन्यं पन्थानं गच्छत इति मन्त्रीवचः श्रुत्वा राजा अन्यां दिशं याति तावता कुष्ठिपेटकमपि त्वरितं तामेव दिशं वलितं राज्ञा भणितं-भो मन्त्रिन् ! अग्रे गत्वा इमान् निवारय मुखमार्गितं शुल्कं ददत येनैषां दर्शनं न सुखदं, इति राज्ञो वचनं श्रुत्वा मन्त्री यावत् तत् करोति तावता तस्य गलिताङ्गुलीमन्त्री द्रुतं नृपपुरत आगम्यैवं भणितुमारब्धः-स्वामिन्नस्माकं प्रभुरुम्बरनामराजा सर्वत्र सर्व्वैर्गुरुदानमानैर्मान्यते, ततोऽस्माकं धनकनकचीवरादिवस्तुभिः किमपि नो कार्य, एतत्मसादाद्वयं सुखिनः स्मः परं नाथ ! अस्मन्मनश्चिन्तितो विकल्पञ्चैकोऽस्ति यद्यस्माकं राजा राज्ञी लभते तदा सुन्दरं, ततो नराधिप । प्रसादं कृत्वा एकां कन्यां देहि, अपरदानेन पर्याप्तमिति श्रुत्वा मन्त्री भणितः - अहो अयुक्तमिदं मार्गितं दुष्टकुष्ठक्लिष्टस्य कः स्वकां कन्यां जानन् ददाति, तदा गलिताङ्गुलिना भणितं देव ! अस्माभिरेतत् श्रुतम् खलु मालवराजा यस्य कस्यापि प्रार्थनाभङ्गं न करोतीति त्वदीया कीर्त्तिः सर्वत्र विख्याताऽस्ति सा निर्मला कीर्त्तिरद्य हीयते, अतः कापि कुलप्रसूता कन्या दीयतमिति, तनिशम्य राज्ञा चिन्तितं- इतो व्याघ्र इतस्तटी इतः कूप इतो दंदेशकः इतचिता इतो गर्त्ता इति न्यायो जातः इति विचिन्त्य राज्ञा भणितं भोः कुष्ठिमन्त्रिन् ! त्वत्स्वामिनेऽहमेकां कन्यां दास्यामि, कः पुमानियन्मात्रेण कार्येण कीर्ति हारयति, इत्युक्त्वा कोपानलज्वलितनिर्मलविवेकचन्दनपादपो भूपश्चिन्तयति - अरिभूतां निजसुतां एतस्य दास्यामि इति विचार्य सहसा वलित्वा निजावासमागत्य राज्ञा मदनसुन्दरी भणिता अद्यापि यदि मत्मसादात्सर्वसम्पद्यते इति वदसि तदा त्वां वरमुत्तमं परिणाययिष्यामि, भूरिधनं च ददामि यदि पुनर्निजकर्मणैव सर्वे भवतीति १ सर्प, For Private & Personal Use Only nelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96