Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 33
________________ का मदीयं पुरं येन वयमपि भक्ति दशामाणोऽपि सपरिकरः कुमारः प्रायन पुरम् । जगत्पूज्यस्त्वच्चरणसरोजरजोभिः पुनीहि मदीयं पुरं येन वयमपि भक्तिं दर्शयामः, इति श्रुत्वा दाक्षिण्यक्षीरनीरधिर्यावता कुमारस्तदाग्रहं मनुते तदा वारयति धवळः ‘पापाः सर्वत्र शङ्किताः' इति न्यायात्, वार्यमाणोऽपि सपरिकरः कुमारः प्राप्तो बर्बराधिपपुरम् , अथ महाकालः स्वसिंहासने कुमारकेसरिणं प्रस्थाप्य बद्धाञ्जलिर्भणति-भो आर्य ! " त्वदायत्ता इमे प्राणाः, राज्यं प्राज्यधनं पुरम् । बन्दिरं मन्दिरबातमेतत्सर्व भवदशम् ॥१॥" परमन्यत् मत्पुत्री प्राणेभ्योऽपि अतिवल्लभा मदनसेना नाम्नी आस्ति, तां परिणय प्रसन्नीभूय, इति निशम्य कुमारः प्राह-अज्ञातकुलशीलस्य वैदेशिकस्य मम निजकन्या कथं दीय ते?, अतोविचार्य प्रदेया, ततो महाकालो भणति-ज्ञातं युष्मतकुलममलशरच्चन्द्रकरनिकरधवलाचारेणैव, सन्तः प्रार्थना न निष्फलयन्ति, इति बह्वाग्रहं विज्ञाय ओमिति भणितं कुमारण, महामहेन परिणाययति स्वसुतां पिता, ददाति च भूरिश्रियं, कुमारसार्थागतं परिवारं वस्त्रादिभिः परिधापयति, IN दापयति नवनाटकानि, एकं च महाजुगं चतुष्पष्टिकूपस्तम्भसनाथं प्रवहणरत्नं बहुरत्नभृतं च, राजा कुमारसहितः तटे प्राप्तः, तदा श्रेष्ठी तं विभवं दृष्ट्वा चिन्तयति चित्ते-अहो किमेतत् जातं ? यदेष एकाकी ममृत्यतुल्यः एतादृशमैश्वर्य प्राप्तो भाटकमात्रमपि मे नार्पयिष्यति, इति चिन्तयित्वा यावत् भाटकं याचते तावत्कुमारोऽपि दशगुणं भाटकं प्रादात्, महाकालोऽपि स्वपुत्री सपरिकरां जामातरं च सम्प्रेष्य निजपुरी प्रति पश्चालितः, अथ कुमारोऽपि प्रवहणस्थितः श्रेष्ठियुतः क्रमेण जलधि लङ्घयित्वा रत्नद्वीपं प्राप्तः संयमेन मुनिरिव शमस्थानं, तत्र रज्जुभिः प्रवहणानि स्तम्भयित्वा भाण्डान्युत्तार्य वेळाकूलपुरतटे पटमण्डपावासमध्ये निवसन् नाटकान्यवलोकयन् विमानस्थितः सुर इव तस्थौ । श्रेष्ठयपि तस्मिन् द्वीपे बहुलाभं विज्ञाय | विज्ञपयति कुमारं-भो आर्य ! स्वप्रवहणानां क्रयाणकानि किं न विक्रीणासि ?, तदा कुमारो वक्ति-तात ! किमस्माकमन्तरमस्ति ?, Jain Education inliona For Private Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96