Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 41
________________ सम्यग् जिनोक्तं धर्म कुरुत यदिहामुत्र कल्याणं वाञ्छथ, तत्र जिनेन तत्त्वत्रयाराधनमयो रम्यो धर्मः प्रोक्तः, | तत्त्वत्रिकं तु सुदेवसुगुरुसुधर्मलक्षणं, तत्र विभेदं देवतत्त्वं अतिसिद्धलक्षणं आचार्योपाध्यायसाधुभिः त्रिभेदं गुरुतत्त्वं दर्शनज्ञानचारित्रतपश्चतुर्भेदं धर्मतत्त्वं, एतेषु नवपदेषु जिनमतसर्वस्वमवतारितम्, एतदाराधनेन जिनमतमाराधितं, तत्राष्टादशदोषरहितो द्वादशगुणोपेतो निखिलकर्ममलविलयवशोपलब्धविशुद्धज्ञानबलविलोकितलोकालोकस्तदनु जगज्जन्तुजीवातुसन्तोषकारणपुरन्दरादिसुन्दरसुरसमुदयाहियमाणप्रातिहार्यपूजोपचारः तदनु सर्वसत्त्वस्वभाषापरिणामिवाणीविशेषापादितैकका. लानेकसत्त्वसङ्घातसन्देहापोहस्तदनु स्वविहारपूतपवनप्रसरसमुत्सारितसमस्तमहीमण्डलातिविततदुरितरजोभरः इति मूलातिशयचतुष्टयविशिष्टाष्टप्रातिहार्यवर्यः श्रीमान् भगवानहन् सुदेवः, सिद्धाः काष्टक्षयजनिताष्टगुणयुक्ताः अनन्तचतुष्टयोपेताः, आचार्याः षट्त्रिंशद्गुणगरिष्ठाः, उपाध्यायाः पञ्चविंशतिगुणश्रेष्ठाः, साधवश्च सप्तविंशतिगुणालङ्कृताङ्गाः, दर्शनं | दर्शनमोहनीयक्षयोपशमादिजन्यमौपशमिकादिपश्चभेदभिन्नं निःशङ्कितनिष्काक्षितनिर्विचिकित्साऽमूढदृष्टयुपबृंहणस्थिरीकरणवा. सत्सल्यतीर्थप्रभावनाभेदादष्टधैव बोधिलाभरूपं, ज्ञानं ज्ञानावरणीयक्षयोपशमजन्यमत्यादिपञ्चभेदभिन्नं कालविनयबहुमानोपधा| नानिह्नवव्यञ्जनार्थतदुभयभेदलक्षणम्, चारित्रं चारित्रमोहनीयक्षयोपशमजन्यदेशविरतिसर्वविरतिरूपं सामायिकादिपञ्चभेदभिन्न पञ्चसमितिगुप्तित्रयपालनाष्टविधं,तपः षड्बाह्यषडभ्यन्तरलक्षणम् । इति तत्त्वत्रिकं अनिगृहितमनोवचःकायरूपवीर्याचारविशिष्टमाराधयति यः स निर्वाणकल्याणभाग्भवति, तथा श्रीसिद्धचक्रचरित्रेऽप्युक्तम्- "जियंतरंगारिजिणे सुनाणे, सप्पाडिहेराइसयप्पहाणे । संदेह| संदोहरयं हरते, झाएह निच्चंपि जिणेऽरिहते॥१॥ दुराहकम्मावरणप्पमुक्के, अणंतनाणाइसिरीचउके । समग्गलोगग्गपयापसिद्धे, झाएह Join Education a l For Private & Personal Use Only

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96