Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 29
________________ प्रभावादभव्यानामुपदेश इव न लग्नानि, पुनः कुमारेण स्वशरस्तषां केषांचित्कणेनक्रकेशमुकुटध्वजादयो लूनाः, करुणापरत्वाज्जीवितं | नो हृतं, धवलस्तं दृष्ट्वा चिन्तयति, एष न मनुष्यमात्रः, किन्तु खेटो विकटः सुरवरो वेत्यतुल्यमहिमा, ततः कृतप्राञ्जलिर्द्धवलो वक्तिभो महाभाग ! प्रसादं कृत्वा स्तम्भितयानपात्रमोचनोपायं किमपि कुरु, सत्पुरुषाश्चोपकारपरा भवन्ति, तदा कुमारेणोक्तं-यदि त्वद्यानपात्राणि मोचयिष्यन्ते तदा किं लभ्यते, स वक्ति-दीनारलक्षमेकं, तच्छुत्वा विकसितवदनकमलो हर्षप्रफुल्लितकपोल: कुपरश्चलितः, धवलोऽपि लोकपरितः प्रवहणं प्राप्तो, निर्यामका अपि स्वस्वप्रवहणप्रेरणव्यापारकरणप्रवणा जातास्तदा कुमारेण नवपदध्यानप्रवणेन सिंहनादो मुक्तः, तं सिंहनादं श्रुत्वा क्षुद्रदेवताः शृगालिकावनष्टाः, प्रवहणानि चलितानि व पनिका कृता, क्रायकजनैस्तूर्याणि | वादितानि, नर्तिता वारयोषितः-इत्याद्यद्भुतं विलोक्य धवलश्चिन्तयति, यद्यपः सार्थे भवेत्तदा सर्वत्राविघ्नं भवेदिति विचिन्त्य | लक्षं दीनाराणां चादाय विनयप्रगुणो वदति धवल:-भो महाभाग एतल्लक्षं त्वदीयं गृहाण, परं मत्सार्थे सुभटानां दशसहस्राणि सन्ति । तेषां प्रतिपर्ष प्रत्येकमेकशतं दीनाराणां ददामि, त्वमपि यदि सार्थरक्षां कुर्यास्तदा तवापि तत्परिमाणां जीविकां दद्मः, इति श्रुत्वा | हसित्वा श्रीपालो भणति-यदि तेषां सर्वेषां वृत्ति मेलयित्वा कोटिप्रमाणं ददत तदा करोमि, तेषां सर्वेषामप्येकोऽहं कार्य नान्यथा, | इति श्रुत्वा पुनर्वक्ति धवल:-यदि दशसहस्राणि गृह्णासि तदा ददामि कोटिमार्गणं वृयैव, तदा कुमारेणोक्तं-नास्ति मे कृत्यं त्वदाजीविकया, किन्तु विविधदेशावलोकनार्थ त्वत्सार्थमिच्छामि, तदा पोताधिपो भणति-यदि भाटकंददासि तदा प्रवहणे प्रतिष्ठाप्यसे, इत्युक्ते दीनारशतं भाटकं समर्प्य स्थितः, पोतः चलितो रत्नद्वीपमुद्दिश्य, तत्रैके वादयन्ति वादित्राणि एके गुणक्षा समारति (?) केपि ध्रुवमण्डलमालिखन्ति केपि दहिस्ता इतस्ततो जलं भ्रामयन्ति, एके वेलामतिकामन्ति नाविकास्तत्पयाणप्रवणं शास्त्रं वाचयन्ति Jain Education Local For Private & Personel Use Only hinelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96