Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पाध्यायं तन्मातरं मध्यस्थसज्जनजनं च विना नृपादयोन्ये सर्वेऽप्यमालवो जाताः, यतः कुदृष्टिना सुदृष्टिवाक्यं हर्ष न जनयति । इतश्च | कुरुजङ्गलदेशे शवपुरी नाम पुरी अस्ति, तस्या नाम पूर्व अहिच्छत्रेति भण्यते, तत्र वैरिकालो दमितारिनाम्ना गुणेन च महीपालोऽस्ति, स प्रतिवर्ष उज्जयिन्यां नृपसेवार्थ याति, अथान्यदा तत्पुत्रोऽरिमर्दनो नाम तारुण्यं प्राप्तः, स पितुःस्थाने तत्सेवार्थ उज्जयिनी माप्तः, तं दिव्यरूपधरं निरीक्ष्य तीक्ष्णकटाक्षविक्षेपेण ताडयन्तीति सुरसुन्दरी पित्रा दृष्टा, भणिता च वत्स!कीदृशस्तव वरो रोचते?, ततस्तया धृष्टया मुक्तलोकलज्जया भणितं-तात ! त्वत्प्रसादात् यदि समीहितं वरं लभे तदाऽयं तरुणः कलाकुशलो रूपलावण्ययुक्त एतादृशो वरो भवतु, ततस्तुष्टेन नृनाथेन तन्मनो ज्ञात्वा वत्से ! एषोऽरिदमनस्तव वरो भवत्विति गदितं, सकलसभ्यैरपि प्रशंसितं-एष शोभन: संयोगो, यथा पूगतरूणां नागवल्लीयोगः शरमत्यश्चयोरिव निशानिशाकरयोरिवेति । अथ मदनसुन्दयपि राज्ञा पृष्टा, वत्से ! तवापि कीग् वरः समीहितस्तत्कथय सत्वरमितिश्रुत्वा साऽपि जिनवचनविचारसञ्जनितचारुचातुर्यविवेकलज्जासज्जिताङ्गी अधोमुखी किमपि यावन्न जल्पति, तावन्नरेन्द्रेण पुनः पृष्टा, तदेषद्धसित्वा जल्पिता-तात ! किमिदमसमञ्जसं पृच्छथ !, यतः कुलबालिका इति न कथयन्ति, एष वरो भवतु, यः पित्रा प्रदत्तः स एव प्रमाणीकर्त्तव्यः, केवलं लोकव्यवहारेण मातरपितरावपि वरप्रत्ययार्थे निमि| तमात्रमेव, यत्पूर्वनिबद्धः स एव भवति, येन यादृशं, शुभा शुभंकर्म समुपार्जितं भविष्यति, तत्तादृशं दोरिकाबद्धमिव सम्प
द्यते, कुकुलेष्वपि दत्ता बहुपुण्या सुखिता भवति, या हीनपुण्या सा सुकुलेष्वपि दत्ता दुःखिता भवति, तस्मात्तात ! तुभ्यं एता| दृशो गर्वो न युज्यते पल्लोके प्रसादाप्रसादौ मत्कृतौ स्तः, यः पुण्यंबलवान् तस्य त्वमपि प्रसीदास, यः पुण्यरहितस्तस्य || न प्रसीदसि, भवितव्यतास्वभावद्रव्यकालादयोऽपि प्रायः पूर्वोपार्जिजतकानुगताः फलं ददति, इत्यादि यथार्थवचनं श्रुत्वा राजा
Jain Educat
For Private & Personel Use Only
amjainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96