Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 12
________________ ज्ञानवि ० कृतम् ॥ ३ ॥ Jain Education याऽशीलद्रव्योपकरणादिमूर्च्छाक्रोधमानमायालो भमेमद्वेषक लहाभ्याख्यानपैशुन्यरत्यरतिपरनिन्दामायामृषामिध्यात्वरूपाणां इत्याद्यकविचाराचारकुशलत्वं प्राप्ता, अन्येष्वपि विचारेषु निजनामस्मरणवत् विशारदत्वेन शारदा जाता, कर्मणामपि मूलोत्तरप्रकृतीर्जानाति, कर्म्मस्थितिं शृणोति, बन्धोदयोदीरणासत्तारूपं कर्मविपाकमपि वेत्तीत्यादिसकलागमनिपुणा सम्यक्त्वगुणकलिता लज्जादिकुलगुणयुक्ता मदनसुन्दरी तारुण्यं प्राप्ता । अथान्येद्युरास्थानसभास्थितेन राज्ञा अध्यापकसहिते द्वे अपि कन्ये आकारिते, विनयावनते स्वरूपलावण्यचङ्गिमचमत्कृतसकलसमे पार्श्वयोः स्थापिते, हर्षप्रकर्षपूरितमानसेन नृपतिना तयोर्बुद्धिपरीक्षणार्थं एकेन पण्डितेन पृष्टं - किं जीवियस्स चिन्धं, का भज्जा होइ मयणरायस्स । का पुप्फाण पहाणा, परिणीया किं करइ वाला ॥ १ ॥ तया प्रोक्तं 4 'सासरइ जाय' तच्छ्रुत्वा चमत्कारकृतेन नृपेण एकं समस्यापदं समर्पितं, 'पुण्येनैतच्च लभ्यते ' तदा तत्कालमति चञ्चलया स्वगर्व्वग्रथिलया सुरसुन्दर्या प्रोक्तम् - तात पूरयाम्यहं समस्यां यथा - धनयौवनवैदग्ध्यमरोगित्वं वपुष्यपि । मनोवल्लभयोगत्वं, पुण्येनैतच्च लभ्यते ।। १ ।। तन्निशम्य तुष्टो नृपः प्रशंसति-साधु साधु भणितं, साधुरस्या उपाध्यायः येनेदृशी शिक्षापिता, पर्षदपि सत्यमिदम् सत्यमिदमिति भणति । ततो राज्ञा मदना आदिष्टा - त्वमपि पूरय समस्यां, आदिवर्णरहितो जगज्जीवनं मध्यरहितो संहारकोऽन्त्यरहितः सर्वेषां इष्टः, मदनयोक्तं- तन्मया नयने दृष्टं, तदा सभ्यपण्डितेन प्रोक्तं- “स्त्रीयुग्मनरयुग्मोत्थः, कृष्णोऽन्तर्बहिरुज्ज्वलः । देवानामपि यो देवः, सर्वनिर्वाहसाधकः ॥ १ ॥ समुद्रोऽपि जलाद्भीतो, गतक्रमो बहुभ्रमी । सर्वभाष्यपि मौनी च, साक्षरोऽपि जडात्मकः २ ॥ तच्छ्रुत्वा मदनयोक्तं-लेखः, चमत्कृतश्रोतृलोकं पुना राज्ञाऽऽदिष्टं एतत् 'पुण्येनैतच्च लभ्यते ' इति समस्यां पूरय, सापि जिनवचनरता | स्वभावसादृश्यं पदं पूरयति, यथा- विवेको विनयश्चोपशान्तत्वं च सुशीलता । महानन्दपदप्राप्तिः, पुण्येनैतच्च लभ्यते ॥ १ ॥ इति श्रुत्वा तदु For Private & Personal Use Only श्रीपाल चरित्रम् • ॥ ३ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96