Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ज्ञानवि०
कृतम्
चरित्रम्
॥
२
॥
पदे पदेऽनेकवयस्समेतं, पुरवजं यत्र सरोवदिष्टं ।
श्रीपाल पदे पदे यत्र सगोरसाणि, सुगोकुलानीव वशामुखानि ॥३॥ तत्राकृतप्रवेशे, दुर्भिक्षाद्यैश्च मालवे देशे । उज्जयिनीनामपुरी, समस्ति शस्तालकाधिक्या ॥१॥ गृहे गृहे यत्र लसन्ति गौर्यो, महेश्वराश्चापि पदे पदे श्रियः । अनेकरम्भाः सकुचा बने बने, पदे पदेऽस्यां पुरुषोत्तमाश्च ॥२॥ अनेकशो यत्र बुधाः कवीशाः, गृहे गृहे प्रीतिरतिप्रतिष्ठाः । श्रीनन्दनाश्चापि पितामहाश्च, पदे पदे सन्ति सुपनाथाः॥३॥ तत्रास्ति नामतो गुणतश्च प्रजापालो नाम राजा, स च काहग् ?-यस्य प्रतापतपनः, सोमो भीमश्च शिष्टदुष्टेषु । परविषयाक्रमणकला-मभ्यस्यति संततं विजयी ।।१।। तस्यावरोधे स्वदेहशोभापहृतसुरसुन्दरीरूपगचे सौभाग्यसुन्दरीरूपसुन्दरीनान्यौ द्वे पत्न्यौ स्तः, तयोः प्रथमा माहेश्वरधर्मवासितकुलोत्पन्नत्वात् मिथ्यादृष्टिरित्याख्याता, द्वितीया श्रावककुलोत्पन्नवात् सम्यक्त्वदृष्टिरित्याख्याता, क्रमेण परस्परं सापत्न्येऽपि प्रीतिकलिते राज्ञा समं नवनवरसतत्परे द्वे अपि आपन्नसत्त्वे जाते, क्रमेण द्वे अपि सुते जनितवत्यौ, वोपन कारापितं, अथ क्रमेण राज्ञा सौभाग्यसुन्दरीनन्दनानाम सुरसुन्दरीति कृतं, रूपसुन्दरीनन्दनानाम मदनसुन्दरीति प्रदत्तं, समये ते समर्पिते अध्यापकाय । तत्र सुरसुन्दरी | शिवभक्तशिवभूतिअध्यापकपार्थे लिखितगणितलक्षणच्छन्दोऽलङ्कारकाव्यतर्कज्योतिःपुराणभारततिनाटयवैद्यकविद्यामन्त्रतन्त्रप्रहे | लिकाचित्रकर्माद्यनेककुटलविटलकरलाघवादिशास्त्राणि चमत्कारजनकानि शिक्षितवती, यतः “सा कावि कला तं किंपि कोसलं तं च नत्थि विनाणं । जं सिक्खियं न तीए, पन्नाअभिओगजोगेणं ॥१॥" सा सविशेष गीतादिषु निपुणा वीणाविनोदलीना सुरसुन्दरी ||॥२॥ विदग्धा जाता, क्रमेण तारुण्यं प्राप्ता, यादृशो गुरुर्भवति तादृशः शिष्ये गुणयोगो जायते इति कारणादेव मिथ्यादृष्टिगुरुप्रसङ्गात् सा मिथ्या- |
Join Education in
IMI
For Private Personal Use Only
Ad
orary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96