Book Title: Sambodhi 1975 Vol 04
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 356
________________ श्रीगौतमस्तुतिः। मुक्त्वा श्रीरमुं नरमचिक्रीडत्तथाऽमुमपि मुक्त्वा कदाचिदन्यः कश्चित् क्रीडितो भविण्यतीत्याह- नाविजच्चास्मान्न पृथगभूदित्यर्थः । इह हरिप्रियासंपदोरमेदेम उपन्यासः 'कलासंपदोः कामध्वजे मकरमत्स्ययो रित्यादिना तथा प्रतिपादनात् । भजते इत्यत्र वर्तमानापरो निर्देशो भगवतो मुक्तिप्राप्तत्वेन साक्षादाश्रयणाऽयोगेऽपि मनसाSSश्रयणेप्येतत्फलमित्यर्थव्यक्त्यर्थम् । अचिक्रीडदित्यत्र चातीतत्वेन निर्देशश्वेद विनय भजसि तर्हि दुःशिष्यो जात एवेत्यादाविव भजननैरन्तर्येणावश्यकफलसद्भावल्यापनार्थः । एवमग्रेऽपि स्वयं ज्ञेयम् ॥२॥ न च भजनमेव फलवदपि तु स्तवनमपीति तत्फलमाह-- नेन्दोर्यदवैक्षीज्जगदगमच्च प्राकटीत्तदस्य यशः । योऽनुद्विग्नमनास्त्वाममोहितः स्तोष्यते नेतः ॥३॥ 'नेन्दो रिति । हे नेतः ! स्वामिन् । न मुह्यतीति हे अमोहितर मूढतामुक्त ! [अनुद्विग्नमनाः] अभग्नचेता यस्त्वां स्तोष्यते तस्य जनस्य तद्यशः प्राकटीत् प्रकटोऽभूत् । यत् इन्दोचन्द्रसकाशान्नावैक्षीदौज्ज्वल्येन न पृथगभूत् । जगद कर्मतापन्नम् अगमञ्च व्यापच्चेति । मा भूत् स्तुतिकर्तुः स्वात्मनि यशःप्रकाशनादनौचित्यं स्तुतेरुपलक्षणमात्रत्वं च । न च स्तुतिकाल एव यशःप्रादुर्भावोऽपि तु तदभिप्राये प्रागपीति ज्ञापनार्थं च स्तोष्यते इत्यत्र भविष्यन्तीपरो निर्देशः ॥३॥ भजनस्तुत्योरभावे भगवद्वाक्याराधनेऽपि फलमाह--- त्वदमोग्धृतप्रियङ्कर ! प्रशिश्रियाणापरागवाक्यं यः। सेवेतैष ऋतीयितविपदापोत्फुल्लसारधिम् ॥४॥ त्वदित्यादि । त्वत्सम्बन्धि । न मुह्यति न शास्त्रार्थे विपर्यस्यतीति अमोग्ध अत एव धातूनामनेकार्थत्वात् । ऋतं सत्यं प्रियङ्करं हितं 'उपसर्गेण धात्वर्थो बलाद'न्यत्र नीयते' । इत्युक्तेः प्रशिश्रियाणं प्रशान्तम् अपरागं नीरागं च वाक्यं वचो यः सेवेत । एष जन ऋतीयितापद्' गतव्यसनः सन्नुत्फुल्लसारर्धिमुल्लसत्स्थिरसम्पदम् आप लेभे इत्यर्थः । 'अमोग्धृत' इत्यत्र "ऋतो वा तौ च (सि.हे.सू.१-२-४) इति १. कदाचिद्० पा. । २. नास्ति 'कदाचिद्' पदम् पा. । ३ ०० पा. । ४. ०र्थः पा. । ५. योऽभग्नचेतास्त्वां पा. । ६. स्थ० पा. । ७. यदिन्दो० पा. । ८. । ०श्चन्द्रात् पा. । ९. रशक्ती पा. । १०. तीति पा. । ११. तथा 'उप० पा । सिद्धान्तकौमुद्याम् भूधातुस्थले उद्धृतमिदम् 'प्रहाराहारसंहारविहारपरिहारवत्' । इत्युत्तरार्धम् ।

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427