Book Title: Sambodhi 1975 Vol 04
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 380
________________ जैनविहारशतकम् दुर्जेयो जैत्रभावासहचरपटलीकीलनाव्याकुलानां निर्णश्यत्प्राणभाजामिह निजशरणीभावमभ्यागतानाम् । : एतद्द्वेष्यानिवान्तदैलयितुमसावीहमानो विहारः प्राञ्चवज्रोपलानां निचयपरिचितं निर्मिमीते स्म दण्डम् ॥२१॥ निर्यज्ज्योतिर्जटालज्वलदनलशिखालोललीलायमानः .. स्वीयप्राश्चद्विभूषाविदलितनलिनीनायकावर्वगर्वः । यस्मिन्नुद्दामरत्नप्रकरपरिचितो मण्डपो दीप्यते स्म ' शङ्के सङ्केतगेहः सह मिलितुमदः कामुकैः सिद्धिलक्ष्म्याः ॥२२॥ स्फूर्जद्गर्जन्नभस्योन्नतसजलमीलन्नुतजीमूतमालाधिकारिध्वानघण्टाबधिरितभुवनो मण्डपोऽस्मिंश्चकासे । मन्ये स्वर्लोकभूमीतलबलिनिलयक्षीरसिन्धूद्वहायाः उत्तालं सूत्रधार्याः कनकमणिमयी नर्तितुं रङ्गशाला ॥२३॥ अन्तर्नीलोपलश्रीस्फुरदरुणमणीश्रेणिसंदर्भगर्भा यस्मिन् ज्योतिस्तरङ्गीभवदमलपयश्चान्द्रभूमी बभासे । मन्ये मत्तालिमाला बहलतरदलल्लोललीलादलाली शोणाम्भोजन्मपुझा शिवहरिणदृशः खेलितुं केलिवापी ॥२४॥ पूर्व निर्मथ्य सारं कनकशिस्वरिणा दत्तवानेष शेष गुप्तं यत् किञ्चिदास्ते तदपि पुनरितो विष्णुरादातुकामः । तद् दुःख मे कृपालो व्यपनय निखिलं वक्तुमित्याजगाम काप्यस्मिन् दुग्धपाथोनिधिरिव विधुरः स्फाटिकोर्वामिषेण ॥२५॥ प्रासादे कुम्भ-भद्रासन-शफरयुगा-ऽऽदर्शक-स्वस्तिकाथैरष्टाभिः सान्द्रचन्द्रोपलदलकलितैर्वस्तुभिर्भद्रकृद्भिः ।.. दधे काचिद् विभूषा शिवपुरनिगमाध्वन्यलीलाधराणां प्रत्यूहव्यूहबाधं सममिव जगतीजन्मनां कर्तुकामैः ॥२६॥ दुर्जेयान् पञ्चबाणप्रबलतममदाद्वैतदुष्टाष्टकर्मद्वेषाज्ञानानुरागासहचरनिवहान् हैलयैवाभिभूय । नानामाणिक्यवर्णस्फटिकसमुदयोत्तम्भितस्तम्भदम्भात् । कीर्तिस्तम्भान् जयाङ्कान् जिनगगनमणिः स्थापयामास मन्ये ॥२७॥

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427