Book Title: Sambodhi 1975 Vol 04
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad
________________
অজ্ঞানবিমু आलम्बा अन्धसंसृत्यवटनिपततां सर्वथा बोभवामोऽधःकर्तुं शक्तिमन्तो नरकपरि[ग]तान् कुम्भिकानां समूहान् । क्रान्त्वा कुम्भीरधस्ताद् घनकनकमयाः स्तम्भवारा विहारे स्फूर्जन्नियंत्करैः स्वैर्जगति मतिमतां व्याहरन्तीति मन्ये ॥२८॥ यस्मिन्नुत्तङ्गपीनस्तनकलशशिखाऽऽभोगभुग्नागभागाः स्वर्णस्तम्भावनद्धा विदधति कुतुकं नेत्रयोः शालभञ्ज्यः । मन्ये यत् पौरनीलोत्पलदलनयनावैभवेनाभिभूतास्तत्साम्यं प्राप्तुकामा इव सुरललना देवदेवं भजन्ते ॥२९॥ मुक्ताप्रालम्बलम्बीकृत करकमलाः सालभजीसमूहा लीलायन्ते जिनेन्दोवसतिविलिखिताः स्तम्भसम्बद्धकायाः । अभ्येत्यैतास्त्रिदश्यः परिभवितुमदः सन्ततीरीहमानाः मन्ये पुर्याः पुरन्ध्रीविभवभरजिता मन्त्रमाराधयन्ति ॥३०॥ सर्वाङ्गीणानुरूपानणिमलवणिमाद्वैतवादाभिभूतस्वर्वामा मालिकाभिः शरदमृतकरप्रत्यनीकाननाभिः । जित्वा बन्दीकृताः किं जिनवृषभगृहस्तम्भलीलायितानां व्याजात्यां चालिकानां भुजगपरिवृढप्रौढपारिप्लवाक्ष्यः ॥३१॥ यस्यां संस्पर्धमाना निजविभवभरैर्वर्णिनीवर्ण्यवर्णानिर्वानन्यचित्रीकृततनुलतिकाः पुत्रिकाणां मिषेण । भाजग्मुः कर्तुकामा रहसि हृदि निजे तज्जयोपायमन्त्रं शङ्के सम्मय भूमीवलिसदनदिविस्मेरदम्भोरुहास्यः ॥३२॥ त्रैलोक्याजेयमोहत्रिपुररिपुरिपुद्वेषविद्वेषभाजां संप्रापथ्यातिदृप्तानिह जगति यशःशेषभूयं समूहान प्रासादे सालभञ्जीकरकमलचलच्चामरच्छत्रराजी व्याजात् तद्राजचिहान्ययमिव भगवानग्रहीदाग्रहेण ॥३३॥ फाश्चिच्चङ्गेरिकाभिर्विलिखितवपुषो व्यग्रहस्ता विहारे पाञ्चाल्यस्त्वत्पदाम्भोरुहपरिचरणात् स्वर्गवासं प्रपन्नाः । आप्तेन्दो ! देहि बद्धाञ्जलय इव महानन्दसौख्यश्रियं नो मानीमो वक्तुकामा इति विबुधवशाः स्वर्गलोकादुपेयुः ॥३४॥
Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427