Book Title: Sambodhi 1975 Vol 04
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 384
________________ जैनविहारशतकम् भूमौ द्वीपान्तरे वा निखिलबलिगृहे वासगेहे मघोनो ु भूतो भावी भवन् वाऽपरिमितमहिमा मत्सदृक्षोऽत्र कश्चित् । भ्रातस्त्वं याहि पश्येत्युपहृतवचनो निकणैः किङ्किणीनां मैत्र्यं कृत्वेव कान्त्या मिथ इति मिहिरं प्रेषयत्यातगेहे ॥ ४९ ॥ कैवल्योत्फुल्लनीलोत्पलदलनयना दूरदेशाधिवासामौत्सुक्यादीहमानं सहृदयनिवहा भावमन्तर्वहन्तः । यत् किङ्किणीनां बहलितनिनदैः प्रीतिसन्देशमस्या विभः सम्प्रापयन्त्युकै लकितहृदया अन्तराकृत्य चैत्यम् ||५०|| पातालं शैलमौलीन जलनिधिपुलिनान् वाहिनीनां प्रवाहान् तारामार्ग दिगन्तान् घनगहनगुहाः पौरहूतांश्च गेहान् । प्रासादे किङ्किणीनां निनदसमुदयाः सर्वतः पूरयन्तः श्रीमत्यावनीन्दोस्त्रिभुवन विजयोद्दीपिनी घोषणेव ॥ ५१ ॥ यस्मिन्नुन्निद्र सान्द्र मणिमणिगणोत्कीर्ण कुडचौथदर्चिःस्तोमस्तम्बेरमारिप्रतिहत तिमिरोन्मत्तमातङ्गराशेः । लीलाशय्यालिकायां जिनरजनिपतेर्मुक्तिमत्तेभगत्या गर्भागारस्य दम्भादिव विरचयितुं नैकधाः स्वैरकेलीः ॥५२॥ तावद् भर्ता पुराणः स वसति जलधौ दृप्तयादोभिरुमैः शेते वा दुष्प्रसह्यः स्मरघनसमये नागराजाधिशय्यः । मुद्रास्तव्याकुलास्यां सरसिजशशिनोर्यामि चेत् तात ! लक्ष्म्या धात्रेतवार्थितेन स्वसुखवसतये जैनधाम व्यधायि ॥५३॥ उन्मीलन्चञ्चु चित्री कृतकुमुदवनानन्दनाम्भोजबन्धुस्तोमैंः संसेवितेनामररमणपुरीले ख्यलीलायितेन । वाचां पारप्रयातैर्वि भवसमुदयैत्यभूमी मघोना मन्ये निर्जित्य बन्दीकृत इव सुमनोभूघरश्चित्रदम्भात् ॥ ५४ ॥ कं वा संसक्तनीलोत्पलदलविलुलन्मालिका लब्धलीलैः कुम्भैराशावसानप्रसृमरकिरणाकीर्णचान्द्रावनद्वैः । यस्मिन्नक्षत्रताराग्रह मिलदुदयावृत्तिमार्गावलानेरम्युद्गच्छन्सहस्त्रामृत किरणमिव व्योम संजायते स्म ॥५५॥ १. उत्कलिका संजाता यस्मिन् तत् उत्कलिकितम् । ५५

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427