________________
जैनविहारशतकम्
भूमौ द्वीपान्तरे वा निखिलबलिगृहे वासगेहे मघोनो
ु
भूतो भावी भवन् वाऽपरिमितमहिमा मत्सदृक्षोऽत्र कश्चित् । भ्रातस्त्वं याहि पश्येत्युपहृतवचनो निकणैः किङ्किणीनां मैत्र्यं कृत्वेव कान्त्या मिथ इति मिहिरं प्रेषयत्यातगेहे ॥ ४९ ॥ कैवल्योत्फुल्लनीलोत्पलदलनयना दूरदेशाधिवासामौत्सुक्यादीहमानं सहृदयनिवहा भावमन्तर्वहन्तः । यत् किङ्किणीनां बहलितनिनदैः प्रीतिसन्देशमस्या विभः सम्प्रापयन्त्युकै लकितहृदया अन्तराकृत्य चैत्यम् ||५०|| पातालं शैलमौलीन जलनिधिपुलिनान् वाहिनीनां प्रवाहान् तारामार्ग दिगन्तान् घनगहनगुहाः पौरहूतांश्च गेहान् । प्रासादे किङ्किणीनां निनदसमुदयाः सर्वतः पूरयन्तः श्रीमत्यावनीन्दोस्त्रिभुवन विजयोद्दीपिनी घोषणेव ॥ ५१ ॥ यस्मिन्नुन्निद्र सान्द्र मणिमणिगणोत्कीर्ण कुडचौथदर्चिःस्तोमस्तम्बेरमारिप्रतिहत तिमिरोन्मत्तमातङ्गराशेः । लीलाशय्यालिकायां जिनरजनिपतेर्मुक्तिमत्तेभगत्या गर्भागारस्य दम्भादिव विरचयितुं नैकधाः स्वैरकेलीः ॥५२॥ तावद् भर्ता पुराणः स वसति जलधौ दृप्तयादोभिरुमैः शेते वा दुष्प्रसह्यः स्मरघनसमये नागराजाधिशय्यः । मुद्रास्तव्याकुलास्यां सरसिजशशिनोर्यामि चेत् तात ! लक्ष्म्या धात्रेतवार्थितेन स्वसुखवसतये जैनधाम व्यधायि ॥५३॥ उन्मीलन्चञ्चु चित्री कृतकुमुदवनानन्दनाम्भोजबन्धुस्तोमैंः संसेवितेनामररमणपुरीले ख्यलीलायितेन । वाचां पारप्रयातैर्वि भवसमुदयैत्यभूमी मघोना मन्ये निर्जित्य बन्दीकृत इव सुमनोभूघरश्चित्रदम्भात् ॥ ५४ ॥ कं वा संसक्तनीलोत्पलदलविलुलन्मालिका लब्धलीलैः कुम्भैराशावसानप्रसृमरकिरणाकीर्णचान्द्रावनद्वैः । यस्मिन्नक्षत्रताराग्रह मिलदुदयावृत्तिमार्गावलानेरम्युद्गच्छन्सहस्त्रामृत किरणमिव व्योम संजायते स्म ॥५५॥
१. उत्कलिका संजाता यस्मिन् तत् उत्कलिकितम् ।
५५