________________
अशातकविकृतम् अन्तःसजातकौतूहलकलित इवानन्तमप्यन्तरिक्ष श्रीमज्जनेन्द्रगेहः परिमितविषयीभावमानेतुकामः । अन्योन्याश्लिष्यदुद्यदिवसमणिमणीधोरणीधूतनूतानन्तध्वान्तप्रसर्पदद्युतिकृतपरिधिभ्रानि दण्डं बिभर्ति ॥५६॥ स्त्यानीभूतामृतांशुद्युतिहरशिखरिस्फीतकर्पूरपारीमुक्ताक्षोदावदाता घनपवनचलत्केतवो यत्र रेजुः। निकाणैः किङ्किणीनामवनिबालगृहस्वर्गिणां जझुकन्या मन्येऽनेकप्रवाहा इह समुपगताः कुर्वते किंवदन्तोः ॥५५॥ निस्तन्द्रज्योतिरुद्यद्विधुमणिललितोत्तुङ्गशृङ्गान्तराले वातूलोल्लोलकेतृल्लिखितमकरिकाबिम्बिकायश्चकासे । आरुह्यात्मीययानं मकरमिव विभो हमार्गेण गङ्गा भूमीगङ्गां सगोत्रां मिलितुमिव महीमुत्तरन्ति नभस्तः ॥५८॥ यस्मिन्सान्द्रेन्द्रनीलोपलकृतशिखरश्रेणिलीलाविनिर्यद्- . : राजज्योतिःप्ररोहैः परिवृतमभितो भासते केतुवासः' । :: शके संरूढशष्पाङ्कितपुलिनतला सिद्धसिन्धुर्वहन्ती । चित्ते रङ्गस्त्रियामापतिहरिणशिशोन्तिरित्याविरासित् ॥५९।। वक्षःपीठान्मुरारेः स्मितनलिनवनात् स्वःसदां वासगेहात्... प्राणेशात् कौमुदीनामनणुमणिगणात् श्रीमतां वा समूहात् ।
आदायाम्भोजयोनिः सरसिजसदनां भिन्नभिन्न प्रतिष्ठा- . मेकत्राय दिदृक्षुः कुतुकित हृदयः किं विहार व्यधत्त ॥६०॥ वेगेनानन्ततारापथचरणवशादन्तरुद्भूतखेदो भावादालम्बनस्य स्वनिपतनभिया बान्धवोऽम्भोरुहाणाम् । यस्मिन्नुत्तुङ्गशृङ्गाङ्गणशिखर शिखाभोगसंलग्नरोचि१४ाजेनेवावलम्ब निजकरनिकरैराददानो विहस्तः ॥६१॥ .. प्रासादेन प्रसर्पन्नि जकरनिकरैः स्पर्धिभावं दधानो न्यच्चके लीलयाऽसौ बहलकमलया तं पुनर्जेतुकामः । तुङ्गिम्ना वा श्रियाऽस्मात् कमपि गुरुतर भ्राम्यतीवेक्षमाणो
नैवं चेत् किं नु पूर्वापरजलधिभुवि भ्राम्यति द्वादशात्मा ॥२॥ १. वासो वस्त्रम् ।