________________
जैनविहारशतकम् प्रासादेनाप्तभर्तुः परमसुषमया लोकचक्षुश्चकोरज्योत्स्नालीलां दधत्या मरुदवनिधरो धिक्कृति लम्भितोऽसौ । कर्तुं तस्मै प्रसत्तिं पुनरपि किमसौ सर्वतः क्षुद्रचैत्यप्रस्थश्रेणीमिषेण व्यरचयदुपदां रत्नसानून्यमूनि ॥६३॥ भूमीपीठावकुण्ठीकृतकठिनहठध्वान्तसन्तानहेतुर्यस्मादशैः प्रवृद्धस्तमपि स्वरकर स्वीयभासा जिगाय । तस्मादेतत्पुरस्तात् किमणुरहमिहेत्युद्भवद्भरिभीतेः पीयूषान्तःप्रवाहै रजनिवरयिता निःसृतैः स्विद्यतीव ॥६॥ यस्मिन् कुत्रापि नीलोपलकृतशिखरान्निःसृताभांशुदूर्वानव्याङ्करभ्रमेणानणुमणिघटितानेकवाहच्छलेन । राज्ञा मुक्तावनावात्मन इव तुरगा रक्षितास्ते दशैवाशेषाशालङ्घनाय किमुत परिमितास्तस्य नोचेद् भवेयुः ॥६५॥ यस्मिन्नियन्मरीचिप्रसृतिपरिचितानेकदिक्खञ्जनाक्षीसम्बद्धस्वर्णकुम्भा मरकतनिकरैः कल्पितोत्तानभित्तिः । । शङ्गश्रेणीविहारी मदयति नयने प्राणिनां प्रावृषेण्या विद्युद्गर्भेव वर्षोन्मुखसलिलनमन्नूतनाम्भोदमाली ॥६६॥
अन्तःसन्दर्भगर्भीकृतधनकनकोंदीप्रदीपावमानामानासामान्यनद्धारुणमणिशिखरैरम्बर' गाहमानः । । सौवर्णार्दिदृक्षां शिथिलयितुमहः कौतुकिप्राणभाजामुच्चैरूहे प्रवृद्धस्त्रिभुवनंतिलकीभूतजैनेन्द्रगेहः ॥१७॥ शीतांशो ! राजधानी क्वचिदपि तव नो संस्थितिः शून्यदेशे राज्ञो दर्प दधानो बलमपि तुरगास्ते दशैते कलङ्किन् ।। रात्रौ स्तेयीव चारी सकलगुणभृता किं मया लजसे न स्पर्धिष्णुश्चत्यराजस्तमिति किमु वदन्निक्वणैः किङ्किणीनाम् ॥१८॥ द्वैराज्यभ्राजिनित्योदयिरजनीकराम्भोजिनीजीवितेश ! द्वैतेनालोक्य शून्यं ग्रहसहितमसन्मार्गमस्येय॑येव । प्रासादस्येव दम्भादहरहरुदयाद्वैतराज्या स्मं धत्ते बिम्ब पाथोजबन्धोरनणुगुणगणैर्गर्भिता रत्नगर्भा ॥६९|