________________
अज्ञातकविकृतम् भूमीरामाललामत्रिभुवनजनताकीर्तितानन्तकीर्ति दृष्ट्वा जैनं विहारं हृदि समभिलषनेतदीयोपमानम् । दोषाभिव्यक्तिभावव्यपनयकरणाबद्धलोलाभियोगी नित्यत्यागैर्वसूनां द्विजपतिमरुणः प्रीणयामास मन्ये ॥७०॥ ज्योतिर्दण्डैः प्रचण्डैनै भतलमिलितैस्ताडयन्तं निजं तत्स्पर्धिष्णु श्रीविहार स्वनयनयुगयोर्गोचरीकृत्य दृप्तम् । वह्नि निर्वर्तयित्वा किमु परिधिनिभात् सर्वतस्तं जिगीषुमध्ये संतिष्ठमानो ज्वलदनलतपः साधयत्यंशुमालो ।।७१।। प्रासादे जैनचन्द्रे प्रसृतकरभराम्भःप्लवप्लावितायां विस्फूर्जत्स्फाटिकोव्यां प्रतिमितशशभृ-मण्डलं द्योतते स्म । मुग्धः प्रोत्फुल्ललीलासरसिजसरसीविभ्रमभ्रान्तचेता अङ्कप्रक्षालनायाऽऽत्मन इव वियतोऽवातरत् शोतकान्तिः ।।७२।। शाणाप्रोल्लेखितान्तर्मणिमयमुकुरस्वच्छसच्छायकायोदामार्चिःपारागोपलपटलकृताधित्यकालम्बिबिम्बः । प्रासादेनाभिभूतो ग्रहपथपथिकस्तं पुनर्निर्जिगीषुः सोऽयं तस्मिन्निलीय स्म वसति किमदः सर्वदोषान् दिदृक्षुः ॥७३॥ निर्वयोर्जस्वलानां प्रकरपरिभवारम्भलुम्पाकशीलं कीलश्रेणीकरालज्वलदनलमिलज्जातवेदप्रतापम् । वासागारं जिनेन्दोरिदमुदितभयव्याकुलीभूतचेताः विद्मः प्राकारगुप्त धृतपरिधिनिभात् स्वं व्यधत्तांशुमाली ॥७॥ यातेऽन्यत्रावनी मामपि परिभवतादन्धकाराभियातिमुक्तेति स्थावरां स्वामिह जिनपगृहच्छत्मना मूर्तिमेकाम् ।
आशाप्रान्तान्तरीपान्तरधनकुतुकालोकनोत्कण्ठिचेता रगन्मूर्त्याऽन्ययाऽसौ भ्रमति कमलिनीनायकः कौतुकीव ॥७५॥ अन्योन्येनाङ्गलग्नप्रसृतनिजकरैर्गाढमाश्लिष्य हर्षोत्कषैः श्रीमद्विहारः सविधिमभिसरत्पमिनीनायकेन । व्यक्तीकुर्वत् स्वमैत्र्यं गगनत लमरुद्वेगवेल्लत्पताकावेलान्तःकिङ्किणीनां मृदुमधुररवैः स्वागतं पृच्छतोव ॥७६॥ .