________________
जैनविहारशतकम् लीलाकल्लोलितान्तःप्रसृमर किरणश्रेणिनिर्वर्ण्यवर्णस्वर्णस्तोमावनद्धान्तरविविधमणीकर्मकिारितश्रीः । पातालक्षोणिपीठत्रिदिवविजयिनो यः पराभूय लदम्या विमो वेल्लल्पताकापटकपटमयीं कोर्तिले खां बिति ॥७७|| उद्यच्चण्डांशुरोचीरुचिररुचिमणीस्व सम्बद्धमित्तिनिर्गच्छधूपधूमं विहसितसुमनःश्रेणिलीलाभिरामम् । तूर्यध्वानैरमानैर्निखिलमपि जगत् पूरयत् पौरहूतं शेषैर्भाग्यैः सुराणामवनितलमिव प्रापदेतद्विमानम् ॥७८॥ क्रामन् पादेन शेषं दधदचल इवोत्तुङ्गताचङ्गिमानं कामाधस्तिर्यगुच्चैःप्रसृत करवरो रोमगुच्छाभिरामः । । वाघद्घण्टाकलापप्रतिनिनदजितोद्गर्जदम्भोदनादः प्रासादो दानवारिप्रकरपरिचितो यः करीवाबभासे ।।७९॥ भूमी स्रोतस्विनी यः शशिकरनिपतञ्चन्द्रपाथःप्रवाहैः संबिभ्रज्जैनमूर्ति प्रमुदितकमलां चान्तरा स्वर्णकायम् । नानारत्नप्रशस्तप्रसृतरुचितनिस्फीतकल्लोलशाली प्रासादः क्षीरपाथोनिधिरिव समभूद् वाद्यगम्भीरघोषः ॥८॥ आशासञ्चारिरोचिनिचयविरचितानेकमाहेन्द्रनीलस्तोमामोल्लेख्यकर्मीकृतगगनतलोत्तुङ्गशृङ्गश्वकासे । मन्ये यद्वर्त्मनाऽसौ निजचिरविरहव्याकुलाङ्गी धरित्रीम् त्रस्यत्सारङ्गनेत्रां मिलितुमवतरन्नम्बुमुक्नोवितेशः ॥८१॥ कान्त्या येनाभिभूयाखिलखरकिरणानात्मना स्पर्धमानान् भीत्येकप्राप्तविष्णुक्रमकजशरणानुद्धृतांस्तानशेषान् । द्वेष्यान् सातरोषादिव घनमिलिताभीशुरज्जुप्रसारैः संयम्यानन्यहैमान्निपनिवहनिभात(? न्) रक्षिता जैनधाम्ना ।।८२॥ पारावारान्तरालान् सिकतिलपुलिनान् कन्दरान् गह्वराश्चाशेषाशाः दन्दशूकाश्रयसुरसदनक्षोणिपीठप्रदेशान् । भ्रान्त्वा श्रान्तान्तरात्मा क्वचन न वसतेरात्मनो योग्यलाभात् पिण्डीभूय प्रतापः किमिह भगवतो यन्मिषेणाधितस्थौ ॥८३॥