SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ अशातकविकृतम् गन्ता नित्यास्तभावं शमनजनयिता चाक्षुषः स्वान् करांश्च प्रत्यूषे प्राणभाजां प्रथयसि पुरतोऽर्थीव निबीडभानो ! निर्दोषेऽनातदोषस्त्वमपि सह मया स्पर्धसे किङ्किणीनां निर्हादैर्भाषमाणः किमिति रचितवांस्ताडनायास्य दण्डम् ॥८४।। यः शम्भुर्वामदेवः शमनशमयिताऽप्यन्धकारातिहन्ता पर्यन्यैर्नीलकण्ठः शिखरपरिचितैर्नव्यनाट्यप्रियश्च । ईशानासूययान्तःसितघटकपटाद्वा चलद्वैजयन्तीव्याजान्मूनीव धत्ते शशिसुरसरितोर्द्वन्द्वमाप्तेन्दुगेहः ॥८५।। ध्वान्तानि ध्वंसमानो धृतचयपरिधिहमानो विहायः विस्फूर्जव्योमकेतुर्निधिरिह महसां गर्विगन्धर्ववर्गः । दोषाविर्भावमेत्तोपगतहरिपदोपास्तिनित्योदयश्रीः कुर्वाणो यः प्रबोधं किमवनिमगमन्मूर्तिमानंशुमाली ॥८६॥ पौष्पापानोन्मदिष्णुभ्रमदलिपटलश्यामलच्छायमध्याश्लिषयल्लीलाबलाकाततियुगलमिलत्प्रावृषेण्याब्दमाला । रेजे यस्योपरिष्टात् त्रिभुवनविजयोद्भूतगर्वं दधानोऽ-- न्तर्मेघाडम्बरं यश्चलचमरयुगच्छत्रमूहे विभर्ति ॥८७।। यस्मिन् पुष्पोपचारः क्वचन विरचितः सचराचञ्चरीकश्रेणीशङ्कारगीतध्वनितपरिचितानेकवीणा विनोदः । सर्वो नक्षत्रताराग्रहनिवह इव श्वेतरोचिविभूषासामान्यं याचमानः प्रभुमिव भजतेऽभ्येत्य नक्षत्रवीथ्याः ॥८८॥ उस्फुल्लत्पर्णमालागलदमलमधुस्यन्दलुभ्यद्विरेफ प्रासादे पुण्डरीकं विलसति परितः क्लप्तकान्तोपचारम् । स्वर्भाणो रुचेता निजमखिलपरीवारमादाय सार्ध मत्ये यस्मिन्निलीया स्थितिमयमतनोत् कौमुदीनामधीशः ॥८९।। उद्भ्राम्यद्भङ्गरामासमुदयविविधानोकहोन्निद्रनिर्यत्पौष्पौषस्यन्दबिन्दूपचितसुमनसां भाति यत्रोपचारः । निर्जित्याद्वैतवीरं कुसुमशरमहोपालमेतस्य शक्तेः .: शास्त्राण्यादाय बासौकसि किमु भगवद्भभुजा धारितानि ॥९॥
SR No.520754
Book TitleSambodhi 1975 Vol 04
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1975
Total Pages427
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy