________________
जैनविहारशतकम् आत्मीयाभातिरेकैर्विहसितविगलद्वारिवाहोपरोधस्मेरार्चिःशारदोनोदिततुहिनकरं यत्र शङ्ख बभस्ति । भूमिभृत्पक्षमेत्तुः प्रबलबलभिदः स्वं लघूकृत्य भोत्या शैलः शीलांशुमौलेरिव शरणमगादहतो वासधाम्नः ॥९१॥ ज्योतीराजीनिबद्धाग्रहनिवहचलत्केतुचक्रान्धकारच्छेत्तारश्चान्द्रवारा हरिपदपटलीस्वर्वहा वैजयन्त्यः । सन्त्येते मय्यनेके मदुपरि तदरेऽस्थाः कथं ताडनायै कुर्वन्नुद्योगमर्हद्गृह इव कृतवान् दण्डमुद्दण्डमुच्चैः ॥१२॥ चचाङ्काररावाधरितसुरवधूधोरणीनृत्यगीत - प्रोन्माघभृङ्गमालाकलितसुमनसां राशिरस्मिश्चकासे । संप्रापं सौमनस्यं तव परिचरणादेतदुच्चैः पदं मां देहि श्रीमज्जिनेन्दोरगमदिति महानन्दकाङ्क्षीह मन्ये ॥९३॥ शोचिःश्रेणीसनाभीकृतनिखिलमिलत्पमिनीप्राणनाथप्राञ्चन्नानामणीभिर्घटितयदवनीनूतनाधित्यकायाम् । शोभा कामप्यनन्यां कलयति नलिनीवल्लभो बिम्बिबिम्ब लक्ष्मी मन्येऽदसीयां मितिविषयमिवानेतुमुद्यच्छतेऽसौ ॥९४।। निर्धूतानेकमुक्तास्तबकसमुदयाश्लिष्टलीलान्तरालश्वचच्चन्द्रोदयोऽस्मिन् क्वचिदसितमणीकान्तसंपृक्तकान्तः । बिम्बेनोवाह शोभा व्यपकुरु जिन ! मे शून्यता सग्रह ! त्वं मन्ये नक्षत्रवीथी: गदितुमिदमहोरात्रमेनं निषेवे ॥९५॥ स्थाने स्थाने प्रलम्बीकरणपरिचितान्याप्त चन्द्रवासे जालान्युन्मीलदिन्दुधुदमृतमिहिकाकान्तमुक्तावलीनाम् । निर्वानन्यनिर्यबहलतरमधुस्यन्दसन्दोहलिप्सु
ओम्यन्ती फुल्लपुष्पस्तबकततिधियेवाभ्यगाद् भृङ्गमाला ॥९६॥ येनानङ्गीकृतं स्वं प्रणयिनमवनीनायकं पनवासासूनुं दृष्ट्वेदमीया विमुदितपरमाणूदरी व्याकुलाङ्गी । आदायेवात्मनीनं सकलमपि परीवारमङ्गं स्वपत्युः पाञ्चालीकैतवेनार्थयति पुनरसौ यत्र शम्भोः पुरस्तात् ॥९७॥