________________
अशातकविकृतम् आप्तक्षोणीतलेन्दोरमललवणिमानन्यसामान्यरूपं सर्वाङ्गीणं त्रिलोकीविजयकृदतिथीकृत्य नेत्रोत्पलाभ्याम् । व्याजात् पाञ्चालिकानां भयतरलमृगीलोचना निझरणामाश्चर्याकृतभावादिव सममभवन् स्तम्मिता जैनगेहे ॥९८॥ वल्गल्लावण्यलीलावगणितफणिभृल्लोकनीलोत्पलाक्ष्यः कल्लोलं द्वन्मुदम्भोनिधिपयसि नृणां शालभञ्ज्यः सृजन्ति । खेलल्लीलायमानाम्बुधिशयनशरच्चन्द्रविद्वेषिवक्त्रा स्नेहेनाभ्याजगाम प्रवरसहचरीवाप्सरोमालिकेयम् ॥९९।। यस्मिन् विस्मेरदम्भोरुहदलनयनाः स्तम्भनद्धा नताङ्ग्यः । पाञ्चाल्यः फुल्लयन्ति स्म नयनकुमुदां वृन्दमिन्दोरिवाल्यः । प्रान्तावासं जिनेन्दो ! व्यपनय किमिदं वक्तुकामाः पुरस्तादाशासारङ्गनेत्रा इव जिनसदने यत्र सम्भूय तस्थुः ॥१०॥ धौतस्फीताश्मगर्भप्रकरपरिचितानन्यसोपानपङ्क्तिः प्रोच्चैर्यत्कुटिमान्तः किमपि नयनयोः कौतुकं तन्तनीति । कालिन्दीवोत्तरङ्गा कनककृतशिखालम्बिकुम्भेऽब्जबन्धो
त्या वप्तारमेनं मिलितुमिव मुदोपक्रमं कुर्वतोह ॥१०१॥ यस्मिन्नुर्जस्वलश्री क्षपितघनतमःकोटिविस्पष्टरोचिः सौवर्णस्तम्भमालाशितिमणिकिरणश्रेणिमिश्रान्तराला । श्रीमत्स्याद्वादिगेहे पुलकयति तनूं कौतुकालोककानां बिभ्राणा नीलवासो दिवसपतिसुता प्रत्यनीका इवैते ॥१०२॥
इति श्रीमज्जैनविहारशतकम्