________________
प
अज्ञातक विकृतम्
प्रासादे स्वर्णकुम्भा दधति दिविरुचि बर्हिबर्हप्रब माङ्गल्यस्मेरदूर्वाङ्कितजलकलशाः सूचयन्तः शिवानि । सिद्धेः सम्प्रस्थितानामिव पथि मथिताऽनेकदुष्कर्ममर्म - ध्यानार्चिर्मालिक लाहुतविषयिहविः शेमुषीभूषितानाम् ||४२ || मुक्त्वा संसारकारां शिवपुरगमने वः समीहा यदि स्थादभ्येताभ्येत लोकाः सपदि तदखिलं लीलया कर्तुमीशे । श्रध्वं चेन्न विष्णोः पदि विधृतकरः स्पर्शनं चित्रभानो कुर्वेदः किङ्किणीनां कणनकपटतो भाषते जैनगेहः ॥ ४३ ॥ कुत्राप्युल्लेख कर्मी कृततुरगगज स्पन्दनोन्मत्तपत्तिश्रेणीलीलायमानप्रबलबलयुतोऽलङ्कृतो नैकरत्नैः । श्रीमत्प्रासादचक्री निचिततमतमः कन्द [ रा ] या इवासी द्वारं निर्वाणपुर्या इव वहतितमां दण्डमुद्घाटनाय ॥ ४४ ॥ आलम्बीकृत्य कश्चित् प्रसरति भुवने निम्नगानाथनेम वान्यः पातालमूलं गलदवधितया स्वैरलीलायमानः । वाह त्रिस्रोत सोऽन्यो नभसि विगलितालम्बसञ्जातखेदः प्रेङ्खोलद्वैजयन्तीपटपटुकपटाद यं समालम्ब्य तस्थौ || ४५॥ रम्भाभिः श्रीभिरीशैः कविगुरुविबुधैर्नैक सन्तानकल्पैगौरीभिर्जिष्णुवृन्दैः समुदितपुरुषेषूत्तमैः शेवधोशैः । सङ्ख्यातीतैरितीवानणुनिजविभवैर्निर्जराणां नगर्या विश्वावस्वोकसारा किमु हसितमदः केतुना निर्मिमीते ॥४६॥ तुम्ना ज्योतिषा वा परमसुखमया वात्मना स्पर्धमानान् सर्वान् जैत्रीककारानभिभवपदवीं लम्भयित्वाऽभियातीन् । प्रासादः सार्वभौमः स्वशिरसि वहते स्माग्रहग्रन्थिबद्ध - प्रेङ्खल्लीला पताकापटमिव विजयोद्दोपकोद्दामचिह्नम् ||४७ || प्रेङ्खोलकिङ्किणीनां मधुरिमललितध्वानदत्तावधानं
नादन्ते नो पिबन्ते न च तृणपयसी वीक्ष्य सारङ्गशावम् । एणाङ्कः प्राप चित्ते मुदमिति यदसौ पानवल्भे' न कुर्वन् गन्ता पञ्चत्वमन्ते ननु भवति पुरां कक्षितिर्मे यशश्व (च) ||४८ ॥ १. वल्भो भोजनम्