________________
जैनविहारशतकम् मोहालस्योन्मदिष्णुप्रतिभटपटलैस्ताड्यमाना प्रचण्डैदण्डाघातैरखण्डैर्विषयसुखमयैः काप्यशक्ता निवस्तुम् । .. यस्मिश्चित्रीकृतोवीतलबलिनिल[य] स्वस्त्रयाणां मिपेण प्रासादस्यावनीन्दोरिव शरणमगात् कान्दिशीका त्रिलोकी ॥३५॥ श्यामत्वाश्लिष्टमास्य वपुरपि सविपं दुर्दिनं कारिता च शुन्याकाशे निवासो जगति मदयशो देव ! निर्णाशमेति । अन्तःसम्बद्धशोणोपलदलविलसन्नीलभित्तिच्छले ना. श्लिष्यद्विद्यत्कलत्रो गदितुमिति घनः शीलयामास शम्भुम् ॥३६।। कुर्वाणा स्पर्धिभावं सहमहिमविभावैभवैः स्वैरसोः स्वर्णादिश्वेतरोचिदिवसमणिमुखा नैप जैत्राङ्ककारान् । श्रोमज्जैनो विहारः परिभवपदवा तान्निनीपुर्विशेषान्मन्ये सैन्यं ससज्ज कचन विलिखिताऽनीकिनोकतवेन ॥३७॥ रोचीरोचिष्णुसान्द्रामृतकिरणमणोधोरणीसं निबद्ध-... प्रासादाधित्यकायां प्रतिमितरजनोनायको निर्बभासे । । उद्वेलोल्लोललोलज्जलपटलमिलदुग्धपाथोधिवातु
र्जातभ्रान्त्या विमुग्धः किमु मिलितुमना आजगामेन्दुसुनुः ॥३८॥ उद्दण्डाखण्डचण्डद्युतिमणिकिरणश्रेणिसङ्कीर्णभित्तिनिर्वर्ण्य स्पर्धमानं स्वपरमविभवैदिशात्मीयबिम्बम् । .. दृप्तस्तं जेतुकामो जिनवृषभगृहोऽभ्रङ्कषैः शेखरैः स्वैः रोषात् संरुध्य तस्यानिलपथपदवीं तस्थिवानेष मन्ये ॥३९॥ निर्धूतामुक्तमुक्तासरनिकरलसत्कण्ठपीठोपकण्ठ्योऽ- : न्योऽन्येनोत्पीडिपीनस्तनकलशयुगात् क्रान्तकान्तोर्ध्वकायाः । शोभन्ते शालभञ्ज्यस्त्रिदशपतिपुरीयत्पुरी निर्जितश्रीस्तस्याः संसेवनायाप्सरस इव निजाः प्राहिणोन्मेनकाद्याः ॥४०॥ प्रासादे शेखराणामुपरि विरचित स्वर्णकुम्भावलीनां साध प्रेख[दध्वजेनासितनभसि बमे सङ्गताचि[वि]भाभिः । सङ्गोऽभूदं वाहिनीनामिव दिवि तिसृणां स्मेरहैमाजराजीनिस्यन्दिस्यन्दपिङ्गीकृतकमनसुता सूर्यजा जाहवानाम् ॥४१॥