________________
जैनविहारशतकम् दुर्जेयो जैत्रभावासहचरपटलीकीलनाव्याकुलानां निर्णश्यत्प्राणभाजामिह निजशरणीभावमभ्यागतानाम् । : एतद्द्वेष्यानिवान्तदैलयितुमसावीहमानो विहारः प्राञ्चवज्रोपलानां निचयपरिचितं निर्मिमीते स्म दण्डम् ॥२१॥ निर्यज्ज्योतिर्जटालज्वलदनलशिखालोललीलायमानः .. स्वीयप्राश्चद्विभूषाविदलितनलिनीनायकावर्वगर्वः । यस्मिन्नुद्दामरत्नप्रकरपरिचितो मण्डपो दीप्यते स्म ' शङ्के सङ्केतगेहः सह मिलितुमदः कामुकैः सिद्धिलक्ष्म्याः ॥२२॥ स्फूर्जद्गर्जन्नभस्योन्नतसजलमीलन्नुतजीमूतमालाधिकारिध्वानघण्टाबधिरितभुवनो मण्डपोऽस्मिंश्चकासे । मन्ये स्वर्लोकभूमीतलबलिनिलयक्षीरसिन्धूद्वहायाः उत्तालं सूत्रधार्याः कनकमणिमयी नर्तितुं रङ्गशाला ॥२३॥ अन्तर्नीलोपलश्रीस्फुरदरुणमणीश्रेणिसंदर्भगर्भा यस्मिन् ज्योतिस्तरङ्गीभवदमलपयश्चान्द्रभूमी बभासे । मन्ये मत्तालिमाला बहलतरदलल्लोललीलादलाली शोणाम्भोजन्मपुझा शिवहरिणदृशः खेलितुं केलिवापी ॥२४॥ पूर्व निर्मथ्य सारं कनकशिस्वरिणा दत्तवानेष शेष गुप्तं यत् किञ्चिदास्ते तदपि पुनरितो विष्णुरादातुकामः । तद् दुःख मे कृपालो व्यपनय निखिलं वक्तुमित्याजगाम काप्यस्मिन् दुग्धपाथोनिधिरिव विधुरः स्फाटिकोर्वामिषेण ॥२५॥ प्रासादे कुम्भ-भद्रासन-शफरयुगा-ऽऽदर्शक-स्वस्तिकाथैरष्टाभिः सान्द्रचन्द्रोपलदलकलितैर्वस्तुभिर्भद्रकृद्भिः ।.. दधे काचिद् विभूषा शिवपुरनिगमाध्वन्यलीलाधराणां प्रत्यूहव्यूहबाधं सममिव जगतीजन्मनां कर्तुकामैः ॥२६॥ दुर्जेयान् पञ्चबाणप्रबलतममदाद्वैतदुष्टाष्टकर्मद्वेषाज्ञानानुरागासहचरनिवहान् हैलयैवाभिभूय । नानामाणिक्यवर्णस्फटिकसमुदयोत्तम्भितस्तम्भदम्भात् । कीर्तिस्तम्भान् जयाङ्कान् जिनगगनमणिः स्थापयामास मन्ये ॥२७॥