________________
NO
अक्षातकविकृतम् दीपैर्गेहेषु भेगिरिगहनगुहास्वौषधीभिबिलेषु व्यालस्फूर्जन्मणीभिः शशिमिहिरकरैर्नक्तमह्रीति खिन्नम् । नालंभूष्णुनिवस्तुं क्वचिदपि तमसां सङ्करः कांदिशीको यस्मिन् मन्ये शरण्ये शरणमिव गतो नीलभित्तिच्छले न ॥१४॥ यस्मिन् विस्मेरलीलाचलदलपटलारब्धकेलीमरालीनिस्यन्दिस्यन्दबिन्दून्मिपित कुमुदिनीगौरिमस्पर्धिधर्मा । रेजे सोपानपङ्क्तिः पवितुमिव विभोर्नित्यभक्त्या नभस्त उच्चैरुच्चस्तरङ्गीभवदमलपया जनुकन्योत्ततार ॥१५॥ प्रीत्या पौरन्दरीयालयपरपदवीचन्द्रशालां विशालामारोद कामुकानां वृषभरसुभगं भावुकानां जनानाम् । निर्वागण्यनानामणिगणकलितस्फीतसोपानदम्भा'चक्रे निश्रेणिकेवावनिबेलिनिलयस्वर्ललामेन येन ॥१६॥ उद्धेलानन्दपाथोनिघिबहलपयःशुद्धभावावरुद्धा यस्मिन्नभ्येत्य भक्किं भगवति विदधत्यङ्गभाजां समूहाः। तेषां न स्यात् कदाचित् कुगतिगतिरिति व्याहरन् यो विहारो रेखाश्चक्रे किमष्टोत्तरशतगणिताः स्वीयसोपानदम्भात् ॥१७॥ त्वत्पादाम्भोजभक्तिप्रणयनवशतः सर्वतस्तुङ्गभावा धुर्यत्वं दानभाजां वसतिरपि पुनर्यावदाशावसानम् ।
भेऽस्माभिः पुनस्त्वं प्रणयजिनमहानन्दलोलानिवासं जानीमो दिग्गजेन्द्रा इति गदितुमदश्चित्रदम्भाद् भजन्ते ॥१८॥ प्रासादे तोरणान्तःपरिलिखितवपुःशालभञ्जीप्रसूनश्रेणीसन्दर्भमालाङ्कितकरकमला यत्र लीलायते स्म । 'शङ्के स्वायंवरस्रक्वलित करतला सिद्धिशातोदरीयं तिष्ठत्यस्मिन् वरीतुं वरमभिलषितं सञ्चरद्यज्जनेषु ॥१९॥ प्रेवन्माणिक्यमालाबहलतरमिलल्लोललीलार्चिरम्भःस्तोमप्रक्षालितोर्वीतलमलिनतमोजालजम्बालमालः । प्राकारो धाम्नि शम्भोरवचनविषयवैभवं स्माऽऽबिभर्ति।
स्वर्भाणोर्भीरुभानू रचितचय इव क्षोणिपीठेऽध्युवास ॥२०॥ १. बलिनियम् पातालम् ।