________________
जैनविहारशतकम् स्वत्पादस्पर्शभाग्यैरभवमहमहो नन्दनोल्लासिलक्ष्मीबिस्फूर्जद्भद्रशालो धनकनकमयः देवराजाभिगम्यः । शम्भो । चैतन्यभूयं प्रवितर किमदो वक्तुकामः सुमेरु. मन्ये प्राकारदम्भादररियुगगरुत्कुण्डलीभूय मेले ॥७॥ मूर्छद्ग निनादप्रबल जलभरानन्तराम्भोदमालामाघद्विाद्विलासैः स्फुरदुरुकिरणैः सोदरत्वं दधानः ।
रौप्यैश्चैत्यैरनुच्चैः स्फुरति परिवृतः सर्वतो यो विहारः प्रोन्मीलत्कुन्दवृन्दैरिव परिकलितश्चम्पको जृम्भमाणः ॥८॥ निर्याताम्भोदरोधप्रसृमर किरणप्रस्फुरत् शारदीनश्यामारामोपयन्तुर्विशदिमललितज्योत्स्नया स्पर्धमानैः क्षुद्रैश्चैत्यैः पीतः कमपि नयनयोर्यस्तनोति प्रमोदं प्रोत्फुल्लत्पुण्डरीकैरिव कनकमयः कुड्मलः शातपत्रः ॥९॥ पारावाराम्बरेयान्तरनिचितकृतस्याप्तभृमीन्दुगेहो नीचैःप्रस्थापितस्याशनिमणिपटलीक्लप्तपाटस्य दम्भात् । उश्मः(?) संसाररङ्गाङ्गणनट नजुषां यातनाः कुर्वतीनां सप्तानां दुर्गतीनां प्रतिघधनमनाः यः प्रहर्तुं प्रवृत्तः ॥१०॥ क्षिप्तैर्यत्पादकाधःकनकनिधिघटैरित्यमुष्मिन्ननव्ये जाते जैनेन्द्रगेहे प्रणयतु सुजनोऽमुं परावृत्य कश्चित् । कुक्ष्यन्तर्लब्धलीलैरिव सुतमणिभिर्वाहिनी कान्तकाञ्ची मन्ये तैरेव कुम्भैः समजनि भुवने पमगर्भेति नाम्ना ॥११॥ विस्फुर्जद्वजराजी जिनपतिसदनोद्दामपादप्रपञ्चां यस्मिन् संभाव्य भव्या इति निजमनसा तर्कमातन्वते स्म । सर्वासां दुर्गतीनां विदलयितुमना भूधराणामिवायं वज्री श्रीमद्विहारः सममुदितरुषा प्राहिणोद् वज्रलेखाः ॥१२॥ भास्वत्स्वर्णादिमुख्यान्निजविभवभरैः स्पर्धमानास्त्रिलोकी जैत्रान्निर्जित्य जिष्णुः क्षणमिह निखिलान् वीरमानी विहारः । पातालं पादकेनासममहिमजुषा स्वात्मना भूमिलोकं शुजैरभ्रंकषैः स्वैर्निखिलदिवमिवाक्रम्य मन्येऽधितस्थौ ॥१३॥...