________________
अज्ञातकविकृतम् जैनविहारशतकम्
श्री शारदायै नमः उद्यन्माणिक्यमाला बहलत रमिलन्निर्यदळूरपूरध्वस्तध्वान्तप्रतानाप्रतिमविरचितानुत्तरोद्धानचैत्यम् । काश्चिल्लक्ष्मी जगाहे जलनिधिवसनाम्भोधिशायिप्रियायाप्रचूडारत्न महोयः शिरसि विनिहितं ज(नालीभुवेव (१) ॥१॥
आकाशे पारवश्यान्नलिनतनुरुहो निस्सहायावलम्बो नित्यप्राचीप्रतीचीजलधिपुलिनभूसीमभूमभ्रमीभिः । अन्तःसञ्जातखेदादिव दिवसमणिः शक्नुवन्नाभिगन्तुं कुत्रापि छानाऽस्या जिनपतिवसतेः क्षोणिमालम्ब्य तस्थौ ॥२॥ अध्नेन स्थास्नुनेव प्रमथिततमसा येन चैत्येन नित्यं व्यक्ति भूमौ निशाह्रोः कथमपि न हृदा विन्दतां कौतुकेन । तल्लक्ष्मी निर्निमेषं स्वनयनविषयीकुर्वतां कोविदानां वृन्दं वृन्दारकाणामिव पुरि सुमनोवक्षसां भासते स्म ॥३॥ आशासारङ्गचक्षुःसमुदयसदनप्राङ्गणाध्वन्यदेश्यस्फूर्जज्ज्योतिर्वितानप्रकटितपरिधिभ्राजिजैनेन्द्रधाम्ना । उद्भिन्नैव वैः स्वैर्दशशतकिरणो येन मन्येऽभिभूतः साम्यायाम्भोधिशय्यं परिचरति हरि सोऽनुसायं समेत्य ॥४॥ रुद्रस्याप्युत्तमाङ्गे हठकृतवसतेर्बिभ्रतोऽपि त्रिशूलं लक्ष्म छिद्रेण राज्ञः सममपि महसां राशिमादाय विमः । प्रासादं पद्मजन्मा प्रवणमणिगणाकीर्णमेनं व्यधत्त स्यान्नैवं चण्डरश्मेरिव हिमकिरणस्यास्य किं न प्रतापः ॥५॥ कोकानामिन्दुकान्ताप्रहरविरहिणामश्रुभिर्व्याकुलानां बन्धूनां याचतां स्वां वसतिमनुदिनं तत्कृपालुधरायाम् । उघन्माणिक्यवप्रोपधिपरिधियुगाधाय मूर्ति द्वितीयां
विनः प्रासाददम्भाद्गगनमणिरसौ निर्मिमीते स्म वासम् ॥६॥ १ सूर्यः बना।