________________
श्रीगौतमस्तुतिः। मुक्त्वा श्रीरमुं नरमचिक्रीडत्तथाऽमुमपि मुक्त्वा कदाचिदन्यः कश्चित् क्रीडितो भविण्यतीत्याह- नाविजच्चास्मान्न पृथगभूदित्यर्थः । इह हरिप्रियासंपदोरमेदेम उपन्यासः 'कलासंपदोः कामध्वजे मकरमत्स्ययो रित्यादिना तथा प्रतिपादनात् । भजते इत्यत्र वर्तमानापरो निर्देशो भगवतो मुक्तिप्राप्तत्वेन साक्षादाश्रयणाऽयोगेऽपि मनसाSSश्रयणेप्येतत्फलमित्यर्थव्यक्त्यर्थम् । अचिक्रीडदित्यत्र चातीतत्वेन निर्देशश्वेद विनय भजसि तर्हि दुःशिष्यो जात एवेत्यादाविव भजननैरन्तर्येणावश्यकफलसद्भावल्यापनार्थः । एवमग्रेऽपि स्वयं ज्ञेयम् ॥२॥
न च भजनमेव फलवदपि तु स्तवनमपीति तत्फलमाह-- नेन्दोर्यदवैक्षीज्जगदगमच्च प्राकटीत्तदस्य यशः । योऽनुद्विग्नमनास्त्वाममोहितः स्तोष्यते नेतः ॥३॥
'नेन्दो रिति । हे नेतः ! स्वामिन् । न मुह्यतीति हे अमोहितर मूढतामुक्त ! [अनुद्विग्नमनाः] अभग्नचेता यस्त्वां स्तोष्यते तस्य जनस्य तद्यशः प्राकटीत् प्रकटोऽभूत् । यत् इन्दोचन्द्रसकाशान्नावैक्षीदौज्ज्वल्येन न पृथगभूत् । जगद कर्मतापन्नम् अगमञ्च व्यापच्चेति । मा भूत् स्तुतिकर्तुः स्वात्मनि यशःप्रकाशनादनौचित्यं स्तुतेरुपलक्षणमात्रत्वं च । न च स्तुतिकाल एव यशःप्रादुर्भावोऽपि तु तदभिप्राये प्रागपीति ज्ञापनार्थं च स्तोष्यते इत्यत्र भविष्यन्तीपरो निर्देशः ॥३॥
भजनस्तुत्योरभावे भगवद्वाक्याराधनेऽपि फलमाह--- त्वदमोग्धृतप्रियङ्कर ! प्रशिश्रियाणापरागवाक्यं यः। सेवेतैष ऋतीयितविपदापोत्फुल्लसारधिम् ॥४॥
त्वदित्यादि । त्वत्सम्बन्धि । न मुह्यति न शास्त्रार्थे विपर्यस्यतीति अमोग्ध अत एव धातूनामनेकार्थत्वात् । ऋतं सत्यं प्रियङ्करं हितं 'उपसर्गेण धात्वर्थो बलाद'न्यत्र नीयते' । इत्युक्तेः प्रशिश्रियाणं प्रशान्तम् अपरागं नीरागं च वाक्यं वचो यः सेवेत । एष जन ऋतीयितापद्' गतव्यसनः सन्नुत्फुल्लसारर्धिमुल्लसत्स्थिरसम्पदम् आप लेभे इत्यर्थः । 'अमोग्धृत' इत्यत्र "ऋतो वा तौ च (सि.हे.सू.१-२-४) इति
१. कदाचिद्० पा. । २. नास्ति 'कदाचिद्' पदम् पा. । ३ ०० पा. । ४. ०र्थः पा. । ५. योऽभग्नचेतास्त्वां पा. । ६. स्थ० पा. । ७. यदिन्दो० पा. । ८. । ०श्चन्द्रात् पा. । ९. रशक्ती पा. । १०. तीति पा. । ११. तथा 'उप० पा । सिद्धान्तकौमुद्याम् भूधातुस्थले उद्धृतमिदम् 'प्रहाराहारसंहारविहारपरिहारवत्' । इत्युत्तरार्धम् ।