________________
श्रीनन्दिधर्मग णिविरचिता
सूत्रेण ऋता सह ऋदेव । न च प्रशिश्रियाणेत्यत्र *रेफसंयुक्तेन पकारेण छन्दोभङ्गः शङ्कनीयः। पादादिस्थितरेफसंयुक्तव्यञ्जनेन प्राग्गुरुत्वायोगात् । 'अल्पव्ययेन सुन्दरि ! ग्राम्यजनो मिष्टमश्नाति' इत्यादावपि तथादर्शनेन ।
मथोदाहरणानि - आत् 'आदित' (सि. हे. सू. ४-४-७१ ) इति सूत्रेण कयोरादौ इनिषेधार्थी, यथाऽत्र 'त्रिमिदाचू स्नेहने' ( है बृ. प्र. पृ. ५५२) मिद् । अकर्मकत्वात् 'गत्यर्थाकर्मक०' (सि. हे. सू. ५ - १ - ११ ) इति [आादिना ] कर्तरि 'ज्ञानेच्छाचार्थजीत०' (सि.हे.सू.५-२-९२ ) इति [आदिना] सैति के इडभावात् क्तैस्य दस्य च नवे मिन्नेति ।
इत् । 'इङितः कर्तरि' (सि.हे. सू. ३-३-२२) सूत्रेण कर्तर्यात्मनेपदार्थो, यथा'एधि वृद्धौ' (भ्वा०है.बृ.प्र.पू. ५१६) एधू आत्मनेपदित्वादनिशि शैवमागमे च धमानेति ।
ईत् 'ईगित:' (सि.हे.सू.३-३-९५) इत्यनेन फलवति कर्तर्यात्मनेपदार्थो यथा 'येथा 'भजीं सेवायाम्' (भ्वा० है. बृ. प्र. पृ. ५२४) भज् वर्तमाना ते शत्रू भजते इति ।
-12-30
उत् “उदितः स्वरान्नोन्तः” (सि. हे. सु. ४-४-९८) इति नागमार्थो यथा - ' नदु समृद्धी' (भ्वा ० है . बृ. प्र. पृ. ५०४ ) नद् उदित्वान्नोन्तः शत्रादौ च नन्दन्निति । 'ऋदुदितः' (सि.हे. सू. १-४-७० ) इत्यनेन च नागमार्थो यथा- न शतरि । तथा 'भांकू दीप्तौ' (अदादि है. बृ.प्र.पू. ५४८) भा 'भातेर्ड वतुः ' ( उणादि. सू. ६६. सि.कौ ) इति वति(तो) उभयत्र घुटि ऋदित्वादुदित्वाच्च नोन्ते नन्दन् भवन्तम् इति च ।
ऊत् " ऊदितो वा" (सि.हे. सू. ४ - ४ - ४२ ) इति क्त्वादो इविकल्पार्थो यथा । ‘असूच् क्षेपणे' (है.बृ. प्र. पृ. ५५४) । अस् । क्वायां विकल्पादिटि वाऽस्त्वा - Sसित्वा चेति ।
* 'हे' इति विकल्पेन गुरुत्वविधानात् । इद सूत्र मङ्गादास महोदयैः स्वकीयछन्दोमञ्जय पिङ्गलसूत्रस्थमिति लिखितं परन्तु पिङ्गलसूत्रे क्वापि न दृश्यते । १. ०स्थेन पा. । २. तरुण सर्षपशाकं नवौदनं पिच्छिलानि च दधीनि । इति पूर्वार्धम् । पादान्तलघोर्विकल्पेन गुरुत्वे दृष्टान्तरूपेणोद्धृतोऽयं छन्दोमञ्जर्याम् । ३. ०नात् पा । ४ नास्ति पा. ।
५.
“रदादमूर्च्छमदः क्तयोर्दस्य च" (सि.हे.सू. ४-२ - ६९ ) । ६. रीति सू० पा. । ७. (सि.हे.सू. ५-२-२० ) । ८. शबू मागमादौ च पा. (सि.हे.सू. ३-४-७१) । ९. (सि. हे. सू. ४ - ४ - ११४ ) | १०. इति पा० । ११. नास्ति पा. । १२. शवि पा. । १३. 'णिदु कुत्सायाम्' (है.वृ.प्र.पू. ५०४) निदू 'ऋवर्णव्यञ्जनाद्...'(सि.हे.सू.५-१-१७) इति कर्मणि ध्यणि नोन्ते च निन्द्येति पा. ।