________________
श्री गौतमस्तुतिः अनुबन्धफलगर्भा ।
श्री गौतमाय नमः ।
श्रीवर्धमान शिष्याग्रणीर्महिमधाम ! गौतमाहगुरो ! | अनुबन्धफल श्लोकैस्त्वामज्ञोऽपि स्तुवन्नस्मि ॥ १॥ आर्या || अस्यावचूरिर्लिख्यते, यथा
हे * श्रोगौतमाहगुरो ! अनुबन्धा अकारादिकारपर्यन्तानां यत्फलं तदाधारत्वेनाधारस्याधेयोपचारात् फलमेव ये प्रयोगाः तेषां तैर्वा ये लोका वृत्तविशेषास्तैः कृत्वा त्वामज्ञोऽप्यहं स्तुवन्नस्मीति योगः । अत्र श्री वर्धमान - शिष्याग्रणीरिति पदं श्रीवीरस्येव श्रीगोतमस्यापि भृशं स्तुत्यर्हतां प्रतिपादयति । महिमेत्यादि तु यदज्ञोऽप्यनन्तगुणं भगवन्तं स्तोतुं शक्नोति, तत्र भगवद्धेतुरित्यर्थं व्यक्ति तथा श्लोकैरिति पदं प्राय आर्यानिबद्धायामप्यस्यां स्तुतौ न दुष्टम् ।
"भवइ य इत्थ सिलोगो पेहेइ हिआणुसासणं" इत्यादावपि तथा दर्शनात् । बैन् वृत्तरचनामनु लक्षीकृत्य ये फलभूताः श्लोका यशांसि तैर्हेतुभिः काव्यं भवतीत्यर्थान्तरसूचनाच्च । न च यैशसां काव्यफलभूतत्वमयुक्तं, "काव्यं यशसे" इत्यादिवचनात् । अथानुबन्धाः--अकारः सर्वत्र उच्चारणार्थः । यथा “असक भुवि” (अदा० है. बृ.प्र.पू. ५४२) वर्तमा० मिवि अस्मीति ॥ १ ॥
अथ प्रस्तुतस्तुतिमाह
मिन्नेधमानमुद् यो भजते नन्दन् भवन्तमस्त्वाऽन्यत् । विष्णुमसित्वा तमचिक्रीडत् श्रीर्नाविजच्चैस्मात् ॥२॥
'मिन्नेत्यादि । स्निह्यवर्धमान हर्षोऽते एव नन्दन् समृद्धिमान् । यः कैश्चिदन्यद् गृहकार्यचिन्तनादि अस्त्वा क्षिप्त्वा भवन्तं भजते । तं नर ं श्रीलक्ष्मीर्विष्णुं स्वप्राणप्रियमसित्वा मुक्त्वाऽचिक्रीडत् व्यलीलसदिति । ( नु) यथा स्वप्राणेश
* गौ० पा. । १. ० हपर्यन्तानाम् पा । २. भगवानेव हेतु ० पा । ३. अथवा बन्धं पा. । ४. कीर्तयः पा. ५. ०भिरित्यर्थव्यक्तेः पा । ६. कीर्त्तीनां पा । ७. काव्यस्य पा. । ८. काव्यं कुर्वीत कीर्तये इत्युक्तेः पा. ।
काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥ इति सम्पूर्णा कारिका. (का. प्र. प्रथम उ.-३ का. २)
९. अथ स्तुतिमाह पा । १०. निन्द्यान्यकृत्यमस्त्वा त्वाम् पा । ११. तस्मा० पा. । १२. 'त.....मान्' अयं पाठो नास्ति ला. । १३. कश्चिद् गर्हितापरगृहव्यापारं पा. । १४. ननु पा. । १५. ० शमसित्वा पा ।